SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ (२७) तंत्र त्वम् - रसनेन्द्रियाः कृमि - जलौका - शङ्ख- शुत्तयादययक्षा नासिकया पुनः शतपदी - मत्कोट - लिक्षादयः ॥ ५ ॥ अक्ष्णा स्युश्चतुरिन्द्रियाश्च मशका भृङ्गाः पतङ्गादयस्तिर्यग्योनिभवा जल-स्थल - खगाः शेषास्तथा नारकाः | गीर्वाणा मनुजाः पुनः प्रभणिताः श्रोत्रेण पञ्चेन्द्रियाः पञ्चाक्षा अपि संत्यसंज्ञिविधयः संज्ञा च चिन्तामतिः ॥ ६ ॥ प्राणादि । भाषा - काय - मनोबले-न्द्रियगणाऽऽ-युः -श्वासरूपा दश प्राणास्तत्र समेषु देह- करणी-च्छवाऽऽयुषां सम्भवः । भाषा स्यादपसंज्ञिनां च विकलाक्षाणां मनः संज्ञिनां देवानामथ नारकक्षितिजुषां जन्मोपपादो मतः ॥ ७ ॥ गर्भश्चाण्ड - जरायु-पोतजनुषां शेषास्तु सम्मूच्छिनः स्त्रीपुंवेदभृतः पुनर्दिविषदः, संमूच्छिनो नारकाः । क्लीबाः, तत्त्रयवेदभाज इतरेऽथौदारिकं वैक्रियं स्यादाहारक- तेज - आवरणकं पञ्चप्रकारं वपुः ॥ ८ ॥ क्षेत्रज्ञानम् । ज्योतिका भवनाधिवासपतयो वैमानिका व्यन्तरा देवाः सन्ति चतुर्विधा इह चतुःषष्टिः सुरेन्द्राः पुनः । आद्यो- पान्त्यसुरा भवन्त्युपरिगाः शेषा अधोवासिनः क्लिष्टाः सप्तसु नारका अपि तथा ऽधोऽधः पृथुक्षोणिषु ॥ ९ ॥ जम्बू-धातकि- पुष्करार्धधरणीमध्यूषिवांसो जनास्तिर्यञ्चस्तु भवन्त्य-तोऽपि परतोऽसङयाऽम्बुनिध्यादिषु । लोकोऽलोक इति द्विधा च भुवनं धर्मास्तिकायादिषड्द्रव्यात्मा खलु लोक एष च, नभोमात्रं त्वलोकः पुनः ॥ १० ॥ जीव-योनिः । स्युर्लक्षाणि च सप्त कौ - घनरसे - वह्नौ - समीरे तथा मन्तद्रौ मनुजे चतुर्दश, दश प्रत्येकभूमीरुहि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004893
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherVadilal Dahyabhai Ahmedabad
Publication Year1922
Total Pages438
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy