________________
(२३) गुरुतत्त्वमनुशास्ति । युज्यन्ते गुरवो महाव्रतधराः सामायिकस्थाः पुनधीरा भैक्षकवृत्तयो विदधतो धर्मोपदेशं शुभम् । अब्रह्मव्रतिनः परिग्रहरताः स्वच्छन्दचेष्टापराः सत्यार्थानुपदेशकास्तु गुरवः श्रेयस्कराः सन्ति न ॥ ३१ ॥ तत्त्वत्रयं परिचाययति । रागी चेत्परमेश्वरो गुरुरपि ब्रह्मव्रताद्भष्टवान् धर्मो निष्करुणो भवेत्तदहह क्लेशः कियानुच्यते ? । माध्यस्थ्येन विचारणात्तु ह्रदये दम्भोलिलेपायते नीरागो भगवान् , गुरुश्चरितवान् , धर्मः कृपात्मेत्यदः ॥ ३२ ॥ देवलक्षण-नाम-पूजाप्रकारोत्कीर्तनम् । सर्वज्ञो विजिताऽखिलाऽऽन्तररिपुस्लोक्यसंपूजितः सत्यार्थप्रतिपादकश्च भगवान् निर्धार्यतां नामभिः । विष्णु-ब्रह्म-महेश-शङ्कर-जिना-हत् - तीर्थनाथादिभि
र्नाम्ना स्थापनया तमर्चत जनाः ! द्रव्येण भावेन च ।। ३३ ।। तीर्थकरसमुत्पादः । उत्सपिण्यवसर्पिणीसमययोः सर्पत्पतत्सम्पदोः षटाऽराऽऽत्मकयोः क्रमेण चलतोः कालस्य वा चक्रयोः । क्षेत्रे श्रीभरते भवन्ति विभवोऽहन्तश्चतुर्विशतिलभ्यन्ते तु विदेहभूमिषु सदा तीर्थङ्कराः शङ्कराः ॥ ३४ ॥ देवपूजाप्रकारानुपदर्शयति । तन्नामस्मरणाद भवेत्स भगवान् नाना समभ्यर्चितस्तद्विम्बाऽचनतो भवेत्स भगवान मू समभ्यर्चितः । आहन्त्यस्य भविष्यतश्च नमनात्स्यात्पजितो द्रव्यतः ताक्षाच्छ्रोपरमेशितुमहनतः स्यात्पूजितो भावतः ॥ ३५ ॥
* उपलक्षणत्वाद् ऐरवतेऽपि । x चकाराद् भूतवतोऽपि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org