SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ( २२ ) "देवा अनिमुखा " इति श्रुतिपादप्येष पक्षो न सन् किं वह्नावपवित्रवस्तु न पतेद् ? अग्रे स्वयं चिन्त्यताम् ! | एकस्माद् मुखतोऽशने दिविषदामुच्छिष्टभुक्तिर्न किं ? किं ब्रूमो बहु ! दृष्टिरागविलयात्तत्वं स्वयं जानताम् ॥ २५ ॥ माध्यस्थ्यमुपदिशति । सत्यासत्यपथा ह्यनादिसमयादायान्ति नित्यस्थिता - स्तिर्यक् श्वभ्र - मनुष्य- देवगतयोऽप्युद्धाटिताः सर्वदा । अस्माकं पुनरैति गच्छति नवा स्वच्छन्दवृत्तौ नृणां भव्यान्तःकरणप्रबोधविधये त्वेता गिरः साम्प्रतम् || २६ ॥ यस्मिन्नेव समासजेद् मुनिपथो यस्मिंश्च कर्म त्रुटेद् यस्मिन्सर्वगता पुनः समुदयेद् यस्मिंश्च मुक्तिर्भवेत् । संसारे गहनेऽपि पुण्यविभवैस्तत्प्राप्य मानुष्यकं सामग्रीसकलं सदुर्लभतरं स्वःसत्समीहाऽऽस्पदम् ॥ २७ ॥ भव्याः ! विघ्नत दृष्टिदुर्ग्रहतमः सम्मील्य नेत्रे पुनः स्वस्थाऽन्तःकरणेन दीर्घमतितस्तत्त्वत्रयं ध्यायत । को देवो भगवान् गुरुर्भवति को धर्मः पुनः कीदृशः ? कीवृक्षस्य गुरोः श्रयेण भगवान् धर्मोऽथवा प्राप्यते ॥ २८ ॥ ब्राह्मणगौरवं मीमांसते । विप्राणां महनीयता सुचरितैर्ब्राह्मण्ययोगेन वा ? यः कोऽप्यस्तु चरित्रवान्नरवरो बन्यो भवेद् आदिमे । कीदृक्षोऽपि भवेद् हिजो, मुनिजनःत्तूत्कृष्टचर्यो न वै नाऽन्त्यो, दुश्चरितद्विजस्य गुरुताप्राप्तिप्रसक्तेः पुनः ॥ २९ ॥ भार्याया रमणो द्विजो, मुनिजनो, ब्रह्मव्रती सर्वथा द्रव्यस्यानुचरो द्विजो मुनिजनो भिक्षुर्गतस्वस्पृहः । सर्व भक्षयति द्विजो मुनिजनोऽगर्धेन योग्याऽऽशकस्तस्माद्वर्णगुरोर्द्विजस्य गुरवः पूज्या अमी साधवः || ३० || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004893
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherVadilal Dahyabhai Ahmedabad
Publication Year1922
Total Pages438
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy