________________
पशुयांग दूषयति । तत्रच्छागवपुष्मतो विहननं स्वर्गप्रदं स्यात् कथं ? स्वर्गप्राप्त्यनुषङ्गतो नरवपुःसंज्ञप्तितोऽप्यन्यथा । हीनत्वेन नरात् पशोविहननं सङ्गच्छते चेत्तदा हीनत्वेन सुरात् नरस्य हननं सङ्गच्छते कि नहि ? ॥ १३ ॥
धर्म चालपता दयां, पशुवधः प्रोच्येत धर्मः कथं शक्यं वक्तुमिदं न मन्त्रविहिता हिंसा न हिंसेति च । मन्त्रः किं नरकप्रदानप्रभुतामाहन्ति हिंसास्थितामेवं चेत् प्रतिषेध एव विहितोऽघानां भवेद् निष्फलः ॥ १४ ॥
सत्यं जल्पति नातनोति कलहं निन्दामसूयां तथा कामाऽलुब्धमना महर्षिचरणोपासीश्वरे भक्तिमान् । यो यागं पशुहिंसया विरहितं निर्मात्य-हिंसावती भो भो ! ब्रूत समस्त्यसौ नरवरो मोक्षाऽध्वपान्थों न वा? ॥१५॥
आधेऽनेकविशारदैरनुगतो-पास्या दयादेवता मान्यो धर्मतया पुनः पशुवधो नो कुत्रचित् कर्हि चित् । अन्त्यं त्वालपतामलौकिकधियां मन्ये, भवेन्मानस प्राणो वा परमाणुभिर्विरचितं लोहस्य वज्रस्य वा ॥ १६ ॥
पितृतर्पणमपास्यति । पञ्चत्वं समुपेयुषःपितृजनान् विप्रोपभुक्तं कथं संप्राप्नोति ? विचारयन्तु सुधियः ! कोऽयं पथोऽलौकिकः ।। कुम्भस्याऽपि परिग्रहे विदधते लोकाः परीक्षां दृढां धर्म त्वेकपदे समीक्षणमृते गृह्णन्ति, केयं मतिः ? ॥ १७ ॥ धर्मा भूरिविधा भवन्ति भुवने, सर्वे च तन्नायकाः स्वं स्वं धर्ममुदाहरन्ति विमलं मुक्ति श्रियः साधनम् । सत्येवं कुलधर्मदुर्ग्रहमनीभावो न युक्तः सतां कूपे स्वे पितरोऽपतन्निति पतेत्स्वोऽपीति कोऽयं नयः ! ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org