SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ( १९ ) हिंसायामितरत्र किं तदधिकं यागीयहिंसा विधेaar सुकृतस्य हेतुरितरा पापस्य हेतुर्भवेत् ॥ ६ ॥ सर्वेषां च मतं सती सुमनसा स्यादन्यतोऽन्या गतियोगे चारटतः पशोः कटुरसं दैन्यप्रकम्पादिभिः । दुर्ध्यानं स्फुटमीक्ष्यते, कथमतः स्वर्गस्य सम्भावना ! हन्तुर्दुष्परिणामतो न च कथं श्वभ्रस्य सम्भावना ! ॥ ७ ॥ शीघ्रrssकस्मिकवल्लभाऽऽशुभसमाचारश्रुतौ तत्क्षणं 1 1 स्वल्पं नो मुखतो निरेति रसना, कस्येव न प्रत्ययः दुर्मारेण विमार्यमाणपशवः स्फूर्जद्रसज्ञा बहिः स्युः कीदृग्विपदापदे निपतिताः हंहो ! स्वयं ध्यायत ॥ ८ ॥ सद्यो लम्बितलोललोहितबहिर्निर्यात गोलाक्षिकं मूकं दीनतरं कृपोद्भत्रभुवं वक्त्रं पशूनां वधे । आलोक्याsपि कृपाङ्कुरः स्फुरति नो येषां मनोमन्दिरे तेषां ग्रावकठोर मानसभुवे भूयाद् मदीयं नमः ॥ ९ ॥ वेदपौरुषेयता । धर्मश्चोदनयोदितोऽखिलजगत्प्रज्ञापनाशक्तिया साधीयानिति जल्पितं मतिमतामग्रेसरैः श्रोत्रियैः I न त्वेतत्संदपौरुषेयकतया वागात्मनोऽसिद्धितो वैशिष्ट्यं च कुमारसम्भवगिरः प्रोज्जृम्भते किं श्रुतौ ? ॥ १० ॥ वेदः स्यात् पुरुषप्रणीत इतरो वाऽऽद्येऽखिलज्ञो न वा ? नाद्यः सर्वविदोऽसमभ्युपगमाद्, अन्त्ये प्रमाणं कुतः ? | नाप्यन्त्यस्तदसम्भवात्, गगनतो व्यक्ताक्षराऽप्रत्ययात् सिध्येन्माघवदेव पूरुषजता वर्णात्मकत्वाच्छ्रुतेः ॥ ११ ॥ प्रामाण्यं पुनराप्तलोकविवशं वाचां न मन्येत कः ? सत्येवं पुनराप्तवश्यविरहाद् वेदः प्रमाणं कुतः १ । छागादिप्रमय- द्रुमार्चन - पितृप्रप्रोति- पापन्नगोस्पर्श-प्रीणितनाकिहव्यप्रमुखा अर्था न युक्ताः पुनः ॥ १२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004893
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherVadilal Dahyabhai Ahmedabad
Publication Year1922
Total Pages438
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy