________________
(१५)
सस्वासत्वविरुद्धधर्मयुगलं नैकत्र युक्तं भवेदित्येकान्तमतोग्रभूत निहताः पूत्कुर्वते सर्वतः । पश्यन्तोऽपि विरुद्धवर्णरचनां तन्मेचकेषु स्फुट सिध्येद् वै सदसत्तया निजपरात्माख्यादवच्छेदकात् ॥ २४ ॥ सत्त्वासत्त्वधियं च संशयतया मन्दं विना को वदेद् ? एकस्मिन् हि विरुद्धधर्मयुगलज्ञानं मतः संशयः। सत्त्वासत्त्वयुगं प्रसिध्यति यदैकस्मिन् प्रमाणात्तदा व्याघातः क इहोदयेत् ? कथमिदंसंप्रत्ययः संशयः! ॥ २५ ॥
स्थाणुर्वा नर एष वेत्यवगमः संविश्रुतः संशयोsनास्था धर्मयुगे सतामभिमता दोलायमानेऽत्र च । नैवं तु प्रकृते, समस्ति सदसत् स्वान्यस्वरूपेण यत् तद् द्रव्यानलधीर्व नैव सदसद्धीनिश्चला संशयः ॥ २६ ॥
नित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवोऽनित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवः । नित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघटयतेऽनित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघट्यते ॥ २७ ॥
नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयोऽ. नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयः। नित्यानित्यतया तु वस्तु वदतः कश्चिन्न बाधोदयो बाधः कः कफकृदगुडेन मिलिते पित्तावहे नागरे! ॥२८॥
तेनोत्पादविपादसंस्थितियुतं भावं यथा गोरसं स्याद्वादिन् ! प्रतिपेदिरे तव मुखाम्भोजोद्भवं प्रशिलाः। भङवा कुण्डलमातनोति कटकं तत् कुण्डलत्वं गतं संजज्ञे कटकस्वरूपमुभयस्थं स्वर्णमत्र स्फुटम् ॥ २९ ॥ नो संयोगि-तदन्यभावयुगलं मूलस्य चाग्रस्य चाsवच्छेदेन यथाऽन्यदीयगुरुभिः कक्षीकृतं बाध्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org