________________
नैषाध्यक्षत उद्भवेदितरथाऽऽद्याध्यक्षकालेऽपि सौग्मजेद् न स्मृतितस्ततो ह्यविषये न स्यात् प्रवृत्तिः क्वचित् ॥१२॥ स्मृतिप्रामाण्यापाकरणनिपुणः कः खलु भुवां ? विसंवादातीता न भवति किमध्यक्षवदसौ ? । गृहीतग्राहित्वं नहि किमनुमानार्थविषये समक्षे, सम्बन्धावगमविषयायामनुमितौ ? ॥ १३ ॥ नाभावस्तु समस्ति मानमनुमाऽर्थापत्तिमानं पुनभिन्नं नाप्युपमानमापतितवत् स्यात् प्रत्यभिज्ञाधियाम् । ऐतिचं पुनरागमो, वितथवाक् चे न प्रमाणं तथा ज्ञानं प्रातिभमुक्त एव पतति, स्याञ्चानुमा सम्भवः ॥ १४ ॥ मानं शासति सन्निकर्षमपि ये कीदृक् प्रभो! तभ्रमः ? स्वाज्ञानः स्वयमेष यत्किमपरज्ञानं सजेत् कुम्भवत् । अन्येषां हि सृजेत् प्रकाशनमसौ दीपः प्रकाशात्मकः प्रत्यक्षे सहकारिताभ्युपगमं त्वेतस्य को वारयेत् ? ॥ १५ ॥ अप्राप्यकारित्ववादः। प्राप्याथै नयनं प्रतीतिजननं स्वीचक्रुषां का मतिनों काचान्तरितार्थबुद्धिरुदयेत् प्राप्य ग्रहे चक्षुषा । कुख्याधन्तरितार्थबुद्धिरुदयेदप्राप्यबोधेऽपि चेत् ? नैवं नेशयोग्यता द्यपरथा स्याद् गन्धधीश्चक्षुषा ॥१६॥ गृहणात्यर्थमवाप्य नेत्रमनसी मुक्त्वेन्द्रियाणां गणो जायेते यदनुग्रहोपहनने मेयप्रणीते इह। शब्दादिविषयो हि पुद्गलतयाऽऽभ्यागम्य कर्णादिकं सम्बध्नाति न किं क्रियाश्रयतया नाऽप्राप्यकारीत्यतः ? ॥१७॥
ज्ञानस्वरूपम् । स्वार्थोद्राससमर्थमेव भवति ज्ञान, भवेन्नान्यथाऽर्थोद्भासो, निजभासनव्यवसितौ ज्ञानान्तरापेक्षिणः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org