________________
। १२) निर्वाधाभिमताऽविनिश्चितमथा साध्यं स धर्मान्वितो धर्मी पक्ष उदाहृतः क्वचिदसौ धर्मोऽनुमेयः पुनः । धर्मी सिध्यति मानतः, क्वचन तु ज्ञानाद् विकल्पात् तथोभाभ्यामप्यथ वहिमांश्च, सकलज्ञश्च, ध्वनियसवान् ॥ ६॥ स्यात् सत्तेतरसाध्यको नियमतो धर्मी विकल्पागतो ज्ञेया साध्यनिराकृतिश्च बहुधाऽनुष्णोऽनलोऽध्यक्षतः । नित्यः शब्द इति प्रजात्यनुमया जैनेन भोज्यं निशीत्येवं चागमतः शिरः शुचि जनात् वाचा च वन्ध्याऽऽम्बिका ॥७॥ वेधाऽसिद्धि-विरुद्ध-संव्यभिचराः प्रोक्ताश्च दुहेतवो दृष्टान्तः खलु साध्य-हेतुनियमो यस्मिन् विनिश्चीयते । दुष्टोऽसौ पुनरष्टधाऽथ नवधा साधर्म्य-वैधर्म्यतो दृष्टेष्टाप्रतिबाधशब्दजनितज्ञानं भवेदागमः ॥ ८॥ प्रमाण परीक्षा। शब्दं खल्वनुमानमानमवदत् यत् तन्न युक्तिक्षम नमभ्यासदशास्वसावनुमि तिर्वस्तुप्रतीतेद्रुतम् । कुटाकुटसुवर्णवीक्षणपरप्रत्यक्षवद् वीक्ष्यतामभ्यासान्यदशास्वमुं त्वनुमिति को नाभ्युपेयात् सुधीः ॥९॥ परस्याभिप्रायं कथमुपलभेताऽनुमितितो विना तश्चार्वाकाननकमलमुद्रा समज नि । न शक्यः प्रत्यक्षात् परहृदयवृत्तेरधिगमो विशेषाञ्चेष्टाया इति यदि तदाऽऽपप्तदनुमा ॥ १० ॥ तार्थग्रहणं विकल्पकधिया पाश्चात्ययाऽध्यक्षतो मेनानो निगदेद् विकल्पकमतिः सा स्यात् प्रमा वाऽप्रमा?। षण्ढादू दारकदोहदस्तु चरमे त्वाद्ये समक्षानुमामानार्थान्तरमानमापतितवत्ततर्क आश्रीयताम् ॥ ११ ॥ यस्तु स्वीकुरुते सुपेशलमतिर्न प्रत्यभिज्ञां प्रमामेकत्वादिधियो ध्रुवं करणतां कस्याप्यतौ व्याहरेत् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org