________________
तृतीय-स्तबकः।
سعف
प्रमाण-मीमांसा।
प्रमाणसंख्या । वार्वाको हि समक्षमेकमनुमायुग् बौद्ध-वैशेषिको ताङ्ख्यः शाब्दयुतं द्वयं तदुपमायुक् चाक्षपादत्रयम् । सार्थापत्तिचतुष्टयं वदति तद् मानं प्रभाकृत् पुनभट्टः सर्वमभावयुक्, जिनमतेऽध्यक्ष परोक्षं द्वयम् ॥ १ ॥
प्रमाणानां सभेद्-स्वरूपनिर्देशः। प्रत्यक्ष व्यवहारतश्च परमार्थाच्च द्विधा भाषितं तत्रावग्रहणादिनेन्द्रियमनोजातं चतुर्भेदकम् । आधं स्यात् , चरमं पुनत्रिविधकं, तत्रादिमं केवलं विश्वव्यापि, मनोऽभिपर्ययमथान्त्यं चावधिस्थोऽवधिः ॥ २॥
अध्यक्षेतरदस्ति च स्मरणधीः संप्रत्यभिज्ञा पुनस्तर्कश्चानुमितिस्तथाऽऽगम इति प्रख्यापितं पञ्चधा । तत्राद्यं त्वनुभूतवस्तुविषयं स्याद् वासनोबोधनादैक्यादिग्रहणं स्मृतेरनुभवाजातं द्वितीय पुनः ॥ ३ ॥
तर्कस्तु प्रतिबन्धबुद्धिरनुमा स्यात् साधनात् साध्यधीद्वैधा स्वार्थपरार्थभेदत इयं तत्रादिमा साधनम् । सन्निर्णीय परोक्षवस्त्ववगमो व्याप्तिं च नीत्वा स्मृति हेतोस्त्वेष परा, तथोपचरिता हेतुर्बभाषेऽनुमा ॥ ४ ॥ व्याप्तत्वेन सुनिर्णयस्य विषयः प्रोचे पुनः साधनं त्रैलक्षण्यमुखान्यलक्षणतया नो युज्यते साधनम् । आलोकादुपरि क्षितेर्दिनकरः खेन्दुर्जलेन्दोरितिस्थानाव्यापितया च तत्तनयताद्येष्वप्यनेकान्ततः ॥ ५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org