________________
(१०) अभाव-वस्तु । ध्वान्तोऽभावतया परैनिंगदितो नैवास्ति युक्तिक्षमो रूपाद्, द्रव्यतयोपपत्तिपदवीप्राप्तेस्तथा स्पर्शतः । कुम्भाभाधवदुद्भवेञ्च तमसोऽभावस्य साक्षात्कृति
लोकेन विना, दुशोरभिगमाद् द्रव्यं तमः सिद्धवत् ॥ ३८ ॥ उपसहरति । विश्वाधीश ! प्रवचनगवी-तत्वदुग्धं त्वदीयं यधन्येषां सजति विकृति दुर्घहे सन्निपाते । किं माधुर्यं तदिह गतवत् ! प्राप्तवत्तूञ्चधीनां नित्यानन्दोद्भवकरणतामन्यसंव्याप्यभावाम् ॥ ३९ ॥ भेकः कृपरतो यथा च मनुते किञ्चिन्न कूपाधिकं न त्वा स्वस्वमतारता इह तथा प्रादेशिका जानते । भ्रान्ता नाथ ! वितत्य ते निजनिजप्रज्ञोद्भवाः कल्पना गेहेनर्दिन एव मान्ति कुधियो गेहे न देहेऽपि न ॥ ४० ॥ हिंसादेरुपदेशतः कलुषितं पूर्वापरार्थेषु च व्याघातैर्मलिनं प्रमाणरहितादेकान्ततो दूषितम् । प्रामाण्यं नहि सासहीतरकृतं शास्त्रं भवन्मुख साध्वेकं तु विपर्ययात् कृतधियोऽभ्यर्च न्ति ते शासनम् ॥४१॥ तेषां कामलरोग एष किमहो ? कि वैष वातोदयः ? केयं भ्रान्तिरलौकिकी निजशिरश्छेदो ध्रुवं स्वासिना । सिद्धान्ते शमशीलपुण्यकरुणापूर्णे प्रदीपेऽपि यत् क्लेशान्धौ हठतः पतन्ति कुधियोऽत्वद्वाङमयाजीकृतेः ॥ ४२ ॥ लेभे तस्कर-रोहिणेय इह ते वाचासुधालेशतोऽकस्मात् कर्णपुटादपीयिततया पीतात् पुनर्जीवनम् । मुक्तः श्रेणिकभूपमारविपदस्तच्छ्रद्धया सेविता । कात्स्न्ये नाप्युपदेशमीश! पुरुषो जाने न कीदग् भवेत् ! ॥४३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org