________________
स्यादास्माकसमक्षगोचरतया व्योम्नो गुणत्वे स कि? न स्युर्याऽणुगुणाः समस्तखगुणाः प्रत्यक्षगम्या यतः ॥ ३१ ॥
कर्मत्वप्रतिषेधनेऽपि नियमाद् द्रव्यं ध्वनि मन्यतां ये छत्यन्तपरोक्षवस्तुगगुणा अस्मत्समक्षा न ते । रूपाचं परमाणुवृत्ति च यथा शब्दोऽपि तस्मान्नभोधर्मः सिध्यति नाऽन्यथा न हि भवेदध्यक्षधीगोचरः ॥ ३२ ॥
स्पर्शप्रत्यय एव वायुरपि चाध्यक्षः समाश्रीयतां मन्यन्ते हि तमोगृहे कृतघटस्पर्शाः समक्षं घटम् । नानकान्तिकता यथोक्तनियमे लब्धावकाशा ततस्तधनाणुगुणो ध्वनिन हि ततो व्योम्नोऽपि, युक्तयैक्यतः ॥३२॥
'शब्दश्चागत एष' एवमखिलप्रज्ञाप्रसिद्धा क्रिया शब्दं द्रव्यतया न साधयति किं ? किं स्याद् गुणः सक्रियः ।। श्रोत्रं शब्द वां न याति, न च वा न प्राप्यकारि स्मृतं गन्धद्रव्यवदेव तद ध्वनिरयं द्रव्यं क्रियातो भवेत् ॥ ३४॥
सर्वप्राणिविनिश्चितेऽपि जनने बाधेन शून्येऽप्यहो ! शब्दं नित्यमुपेयुषां प्रतिपदं किं वर्णयामोऽधुना !। व्यङ्ग्यत्वेऽथ च निर्मिते प्रयतने तत्तद्ध्वनिव्यक्तये शब्दास्तत्स्थलसम्भवाः पर इह व्यक्तिं कथं नाप्नुयुः ? ।। ३५ ।। व्यङ्गयत्वं नियतप्रकाशजनकैः शब्देषु चेत् ? नो, तथाऽभ्यत्राऽसम्प्रतिपत्तितोऽनुभवतो बाधोऽन्यथा दुर्धरः । दीपो द्रष्टुमुपाहितो दधिघटं गेहाङ्गणे भूस्पृशाsपूपानामपि हन्त ! तत्स्थलजुषां किं न प्रकाशं सृजेत् १॥३६॥ चैत्रो भाषत एवमावरणवानप्येष विज्ञायते तच्छब्दस्य विचित्रभाववशतः किं ना ! मीमांसक!। व्यङ्ग्यत्वे त्वनुमानसंविदमिमां शक्नोषि कर्तुं कुतो ? . व्यायैः कुम्भमुखैर्भवदेनुमितं दीपादि किं व्याकम् १३७ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org