________________
आत्मा यद्यपलप्यतेऽसुखसुखाभिन्नरूपं जगत् सिध्येत् किं तदनाधदृष्टपुरुषाभावे समालोच्यताम् ॥ १८॥ वैचित्र्यं जगतः प्रसिध्यतितरां हन्त ! स्वभावादितिस्वच्छं नैष विहेतुता यदि तदा सद् वा सदा स्यादसत् । नापि स्वात्मनिमित्तभाव उदयेदात्माश्रयी दूषणं कश्चिद् वस्तुविशेष एव यदि तत् नादृष्टभिन्नं भवेत् ॥ १९ ॥ एतद् बालवपुस्तदन्तरवपुःपूर्व हृषीकादिना तारुण्याढयवपुर्वदित्यनुमयाऽदृष्टं समाश्रीयताम् । प्राच्यातीतशरीरपूर्वकमिदं न स्यात् , यतस्तद्भवे तद् ध्वस्त, नियतप्रदेशगतये स्यात् कार्मणः पुद्गलः ॥ २० ॥ एतत् कर्म च पुद्गलात्मकतया स्वीकुर्वतेच्छे किला आत्मा नापरथा भवेत् परवशो, ज्ञेयं यथा बन्धनम् । क्रोधाथैयभिचारिता नहि, यतस्ते पारतन्त्र्यात्मकास्तद्धेतुः किल कर्म पुद्गलतया सिद्धिं समारूढवत् ॥ २१ ॥ नाक्षाणामपि चेतनाभ्युपगमः सम्यग्, यतश्चक्षुषः प्रध्वंसे प्रभवेत् कुतः स्मरणधी रूपस्य संवीक्ष्यताम् ।। अन्यालोकितवस्तुनः स्परणधीरन्यस्य नो युज्यते भावाक्षाणि तु चेतनात्मकतया जैनेश्वरा मेनिरे ॥ २२ ॥ आत्मविभुत्ववादः। जीवं व्यापितया समग्रभुवने संप्रोचुषां का मतिः ? यो यत्रैव यदस्ति दृष्टगुणकस्तत्रैव खल्वप्यसौ । कुम्भ पश्य ! स यत्र दृष्टगुणकस्तत्रैव खल्वप्यसौ भ्रान्ता देव! भवद्धचोऽमृतरसानन्देभ्यं ईालवः ॥ २३ ॥ जीवस्य प्रमितेर्वपुष्परिमिते देन भेदे भवेनानातेति च मा स्म बोधत पृथग्भावेऽपि रक्तादिना । कुम्भाभेद इवात्मनः परिमिते देऽपि भेदो न यत् शुद्धार्थक्यविशिष्टभेदयुमलं धत्ते विरोध नहि ॥ २४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org