SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ ( ६ ) नेदं युक्तिसह प्रमाणविरहात् प्रत्यक्षतोऽर्थैक्षणात् वनस्य स्फुरदर्थकत्वनियमाद् अर्थक्रियाभावतः ।। १२ ।। सांख्यवादः । विज्ञानं जडबुद्धिधर्ममुपयन साङ्ख्यो न सङ्ख्याश्रितो निर्लेपात्मचिदं वदन् विविषयां साङ्ख्यो न सङ्ख्याश्रितः । जल्पन् बन्धविमोक्षशून्यपुरुषं साङ्ख्यो न सङ्ख्याश्रितस्तत्तन्मात्रजमम्बरादि निगदन् साङ्ख्यो न सङ्ख्याश्रितः ॥ १३॥ मायावादः । मायां ख्यातवता समभ्युपगता किं सत्यसौ वाऽसती ? स्यादाचे द्वयतत्वसिद्धिरसती चेत् तत् प्रपञ्चः कुतः ? | स्यान्मायाऽर्थसहाप्यथेति वदता स्वामिन् ! तवाऽलोकिना स्याद् वन्ध्या र जनन्यपीति भुवने प्रख्यापिता किंमतिः ॥ १४ ॥ चैतन्यवादः । चैतन्यं च शरीरवृत्ति न भवेत्, यत् स्याच्छवेऽप्यन्यथा ज्ञानाचं, ननु सम्भवेत् लवणिमाद्यं वा कुतस्तत्र तत् ? । नैवं, तच भवेद्यतो लवणिमा, स्यादन्यथात्मैव तमात्रा हेतुतयाऽन्य हे तुमनने चैतन्यवत् सिद्धवान् ॥ १५ ॥ प्राणाभावत एव बुद्धिविरहो युक्तो न वक्तुं शवे सञ्चारे नलिकादिनापि न भवेत् चैतन्य संप्रत्ययः । चैतन्ये वपुषः पुनः प्रतिदिनं त्वन्यान्यभावे कुतो आयेतोत्तरवासरे स्मरणधीः पूर्वानुभूतस्य भोः ! ॥ १६ ॥ निर्ज्ञानं खलु भूतवस्तु तदहो ! तजं शरीरं कुतचैतन्यादिगुणाश्रयो ? न हि पटः सम्पद्यते मृत्स्नया । भूतानामपि चेतना सकलधी निर्बाधनाद् बाधिता साहित्येऽपि च चेतना नहि, तथाभूतेऽन्यतो बाधतः ॥ १७ ॥ ज्ञानी वा सुखितोऽस्मि वाऽस्म्यसुखितः सम्प्रत्यहं खल्वितिप्रज्ञानादबहिर्मुखाकृतितया विश्वाङ्गिनां सिद्धवान् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004893
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherVadilal Dahyabhai Ahmedabad
Publication Year1922
Total Pages438
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy