________________
भूपालस्तु न बुध्यते विदधतं गुप्तं कुकृत्य नर प्राकटये तु स दण्डयेत्, कुचरितं जानंस्तु रुन्द्रे ध्रुवम् ॥ ६ ॥ सदबुद्धिं ददते न किं स जगतः कुर्यात् सुकमैव यत् ? तेन क्लेशसमर्पणश्रमवतेशेनापि भूयेत नो । प्राचीनावरणादुदेति कुमतिश्चेत् तद् विमुञ्चेश्वरं प्राचीनावरणात् सुखासुख विधिं निर्बाधमङ्गीकुरु ॥ ७ ॥ शित्वं खलु निनिमित्तमथवा स्याद्धेतुमद, नादिमः स्यात् न स्यादथवाखिलस्य, न परो, हेतुर्यत: को भवेत् । तद्धेतुं समसाधय विभुरसावेवापरः कोऽपि ने- . त्यत्रापि प्रवदेत् प्रमागममलं मानाद्धि मेयं स्फुरेत् ॥ ८ ॥ मुक्तिबन्धमृते कदापि न भवेत् , बन्धो न चेदीशितुः स्यान्मुक्तव्यपदेशभाक स गिरिजास्वामी कथं व्योमवत् ?। श्रेयोऽश्रेयफलार्पणे स जगतः प्राप्तोऽधिकारं कुतः ? किं मुक्ता अधिकारमेतमपरे मुक्तत्वतो नाप्नुयुः ? ॥ ९ ॥ शून्यवादः। मानं प्रोज्झितवान् स शुन्यवदनः किं शुन्यबाद वदेत् ? मानं संश्रितवान् स शुन्यवदनः किं शून्यवादं वदेत ? | विश्वस्य व्यवहारसाधकतया कि शून्यवादं वदेत् ? धावन् वज्रनिपात आशु गगनात् किं शून्यवाद वदेत् ? ॥१०॥ क्षणिकवादः। एकान्तक्षणिक पदार्थमुपयन बौद्धो महानाग्रही सम्बन्धो नहि साधकस्य भवितुं सार्धं फलेनाऽर्हति । स्याद्धेतुर्वधको वधस्य च कथं ? सत्प्रत्यभिज्ञास्मृती विश्वार्थव्यवहारकारणतया स्वामिन् ! भवेतां कुतः ? ॥ ११ ॥ ज्ञानाद्वैतवादः। ज्ञानाद्वैत विदो वदन्ति सकलं ज्ञानात्मकं केवलं बाह्य वस्तु समस्ति नैव किमपि भ्रान्तिर्यदालोक्यते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org