SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ ( २ ) हत्वाऽनादिसमस्तपातकमलं यः प्राप्य सर्वज्ञतां 'विश्वोद्धारणमा तनोन्निजगिरा तं वीरदेवं स्तुवे ॥ ४ ॥ यज्ञार्थं मिलिता विलोक्य विबुधानेकादश ब्राह्मणा यातोऽर्हन्नतये निशम्य च जनात् सर्वज्ञमत्रागतम् । वादार्थ प्रभुमागता गणधरा निःसंशया गौतमाer येन प्रतिबोधनाद् विदधिरे तं वीरदेवं वहे ।। ५ ।। यः कारुण्यमहार्णषो मुनिमनः पाथोजहंसो जगन्ने त्रानन्दकलाधरोऽखिलभवोपग्राहिकर्मक्षयात् । सिद्धार्थः खलु सर्वथा त्रिभुवनावासं विहाय क्षणात् तत्सब्रह्मपरात्मना समभवत् तं वीरमन्तर्णये ॥ ६ ॥ प्रस्तावः । शक्तो योगिजनस्तव स्तवविधौ किं नाम विश्वेश्वर ! प्रादुष्कर्तुमलं पुनस्तव गुणान् सर्वज्ञवर्गः किमु ? | कोऽहं तद् भगवन् अतीवजडधीः ! किञ्चेदमारब्धवान् ! ऊर्ध्वकृत्य किलाङ्गुलीं गणयितुं चेष्टे नभस्तारकाः || ७ || भाव्यं यत्नवता शुभे निजबलौचित्येति सद् भाषितं दाणो हृदि वा मनागपि कथं हासास्पदं स्यां सताम् ? | निष्कम्पे च गुणानुरागरमणेऽज्ञस्यापि मे साम्प्रतं • नायासः किमु पूर्वसूरिवदयं स्तोत्रे तवाऽधीश्वर ! ॥ ८ ॥ मुक्तिः । मुक्तिस्तावदुदीरिता द्वयविधा, जीवत्स्वरूपाऽऽदिमा विध्वंसेन चतुष्टयस्य नितमां सा घातिनां कर्मणाम् । लोकालोकविलोकनैककुशलः श्री केवलाहस्करः स्यादौदारिकदेहिनो जगति यो नित्यं समुद्भासुरः ॥ ९ ॥ जीवन्मुक्तिमुपागता द्वयविधास्तीर्थङ्करा आदिमास्तच्छ्रन्या अपरे व्रयेऽप्यभयदा आतन्वते देशनाम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004893
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherVadilal Dahyabhai Ahmedabad
Publication Year1922
Total Pages438
LanguageGujarati
ClassificationBook_Gujarati
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy