SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ चतुर्विशतिका. वाग्देवता हतकुवादिकुला भवर्णात् सा पातु कुन्दविकसन्मुकुलाभवर्णा ॥ ४॥ १॥-वसन्त ० २ श्रीअजितजिनस्तुतयः अथ श्रीअजितनाथस्य स्तुतिः कुसुमबाणचमूभिरपीडित स्त्रिभिरतीव जगद्भिरपीडितः । सकललोकमवन् वृजिनाजितः शमयताद् दुरितानि जि'नाजितः ॥१॥ -द्रुतविलम्बितम् जिनेश्वराणां नुतिः कृतवतोऽसुमतां शरणान्वयं - सकलतीर्थकृतां चरणान् वयम् । सुरकृताम्बुजगर्भनिशान्तकान् - रविसमान् प्रणुमोऽघनिशान्तकान् ॥२॥-द्रुत० जिनवाणीप्रशंसा कृतसमस्तजगच्छभवस्तुता जितकुवादिगणाऽस्तभवस्तुता । अवतु वः परिपूर्णनभा रती मस्ते ददती जिनभारती ॥ ३ ॥-टुन ० धरणपट्टमहिलायाः स्तुतिः सुफणरत्नसरीसृपराजितां ..रिपुबलप्रहतावपराजिताम् । स्मरत तां धरणाग्रिमयोषितं जिनगृहेषु ययाऽश्रमयोषितम् ॥ ४॥२॥-द्रुत० १ तृतीयतुरीयचरणयोः पूर्वापरीभावोऽप्युपलभ्यते। २'चरणा.' इत्यपि पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004891
Book TitleChaturvinshatika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy