________________
अथ श्रीनाभेयस्य स्तुतिः -
श्रीबप्पभट्टिसूरिविरचिता
॥ चतुर्विंशतिका ॥
१ श्री ऋषभजिनस्तुतयः
नम्रन्द्रमौलिगलितोत्तमपारिजातमालाचितक्रम ! भवन्तमपारिजात ! | 'नाभेय !' नौमि भुवनत्रिकपापवर्गदायिन् ! जिनास्तमदनादिकपापवर्ग ! ॥ १ ॥
- वसन्ततिलका
जिनवराणां प्रार्थना
जैन सिद्धान्त प्रशंसा
Jain Education International
दारिद्र्यमद्रिसमविग्रहतापनीय
राशि प्रदानविधिना महताऽपनीय । यैर्दुःखशत्रुरिह जन्मवतामघानि
निमन्तु ते जिनवरा भवतामघानि ॥ २ ॥ - वसन्त०
यह दोपदारुदहनेषु रतः कृशानुः
स्यादापदुर्व्यपि हि यत् स्मरतः कृशा नुः । यद् वृष्टिरेव परिदाहिषु मेघजालं
जैनं मतं हरतु तद् गुरु मेघजालम् ॥ ३ ॥ चसन्त०
श्रुतदेवतासंकीर्तनम् -
यां द्राग् भवन्ति सुरमन्त्रिसमा नमन्तः सन्त्यज्य मोहमधियोऽप्यसमानमन्तः ।
For Private & Personal Use Only
www.jainelibrary.org