________________
૨૦૪
चतुर्विंशतिका. णात्मानं घातयामि। एवं प्ल(टल?)वलायमानोऽनुचरानादिदेश-अग्निं प्रगुणयत । प्रगुणितस्तैरग्निः। समागताः श्रीवप्पभटिसूरयः । मिलितं चातुर्वर्ण्यम् , उक्तं तदघम् । यावत् सहसा कृशानुं प्रविशत्यामस्तावद् बाहू धृत्वा सूरिभिरुक्तः-राजन् ! शुद्धोऽसि, मा स्म खिद्येथाः। त्वया हि संकल्पमात्रेण तत् पापं कृतं न साक्षात् , संकल्पेनाग्निमपि प्रविष्टोऽसि, चिरं धर्म कुरु।
"मनसा मानसं कर्म, वचसा वाचिकं तथा ।
कायेन कायिकं कर्म, निस्तरन्ति मनीषिणः ॥१॥"-अनु० इति वचनात् । विसृष्टोऽग्निः । जीवितो राजा । तुष्टो लोकः । प्रीतः सूरिः॥ समयान्तरे वाक्पतिराजो मथुरां ययौ । तत्र श्रीपादस्त्रिदण्डी जज्ञे, स तल्लोकादवगम्य आमः सूरीन् बभाषे-भवद्भिरहमपि श्रावकः कृतः । दिव्या वाणी वः प्रसन्नैव । जानामि वः शक्तिं परेषां(रमां?) यदि वाक्पतिमपि आहती दीक्षां ग्राहयथाः। आचार्यैः प्रतिज्ञा चक्रे-तदा मे विद्या प्रमाणं यदि वाक्पतिं स्वशिष्यं श्वेताम्बरं कुर्वे । वाक्पतिस्तु कास्तीत्युग्यताम् , राज्ञोक्तम्-मथुरायां विद्यते। सूरयो मथुरायां गता बहुभिः श्रीआमाप्तनरैः सह, वराहमिहिराख्ये प्रासादे ध्यानस्थं वाक्पतिमद्राक्षुः । गत्वा तत्पृष्ठस्थैः सूरिभिः भूरिस्वरेण आशीर्वादाः पठितुमारेभिरे
"सन्ध्यां यत् प्रणिपत्य लोकपुरतो वद्धाञ्जलिर्याचसे
धत्से यच्च नदी विलज्ज ! शिरसा तच्चापि सोढं मया । श्रीर्जाताऽम्बुधिमन्थने यदि हरेः कस्माद् विषं भक्षितं ?
मा स्त्रीलम्पट ! मा स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥११॥-शार्दूल. एकं ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः ।
पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यद् दूरविकृष्टकामदहनक्रोधानलोद्दीपितं
शम्भोभिन्नरसं समाधिसमये नेत्रत्रयं पातु वः ॥२॥-शार्दूल. रामो नाम बभूव हुं तदबला सीतेति हुं तां पितु
र्याचा पञ्चवटीवने विचरतस्तस्याहरद् रावणः। निद्रार्थं जननीकथामिति हरेहुंकारिणः शृण्वतः
पूर्व स्मर्तुरवन्तु कोपकुटिलभ्रूभङ्गरा दृष्टयः ॥ ३ ॥-शार्दूल. उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन धृ(कृ)त्वा
कृ(धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । सद्यस्तत्कायकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः
शय्यामालिङ्गय नीतं वपुरलसलसद्वाहु लक्ष्म्याः पुनातु ॥ ४॥"-स्रग्धरा , 'ताऽमृतमन्थने' इति पाठः प्रभावक-चरित्रे (पृ० १६७)।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org