________________
૧૮૮
चतुर्विशतिका. ततो ज्ञाततन्निश्चयाभ्यां मातापितृभ्यां जल्पितम्-भगवन् ! गृहाण पात्रमेतत् । परं वप्पभट्टिरिति नाम अस्य कर्तव्यम् । गुरुभिभणितम्-अस्तु को दोपः?, पुण्यवन्तौ युवाम् , युवयोरयं लाभः सम्पन्नः । बप्पं भटिं च आपृच्छय सूरपालं गृहीत्वा सिद्धसेनाचार्याः मोढेरकं गताः।
शंताष्टके वत्सराणां, गते विक्रमकालतः।
सप्ताधिके राधशुक्ल-तृतीयादिवसे गुरौ ॥ १॥-अनुष्टुप दीक्षा दत्ता । वप्पभटिरिति नाम विश्ववल्लभं जुघुषे । सङ्घप्रार्थनया तत्र चातुर्मासिकं कृतम् ॥
बहिर्भूमिगतस्य बप्पभमहती वृष्टिमतनिष्ट घनः । क्वापि देवकुले स्थितः सः, तत्र देवकुले महाबौद्धः कोऽपि पुमानागतः । अत्र देवकुले प्रशस्तिकाव्यानि रसाढ्यानि गम्भीरार्थानि तेन बप्पभट्टिपार्थात् व्याख्यापितानि । ततः स बप्पभटिना समं वसतिमायातः, गुरुभिराशीभिरभिनन्दितः, आम्नायं पृष्टः। ततोऽसौ जगाद-भगवन् ! कान्यकुजदेशे गोपालगिरिदुर्गनगरे यशोधर्मनृपतेः सुयशादेवीकुक्षिजन्मा नन्दनोऽहं, यौवने निरर्गलो धनं लीलया व्ययन् पित्रा कुपितेन शिक्षितः-वत्स! धनार्जकस्य कृच्छ्रमस्था. नव्ययी पुत्रो न वेत्ति, ततस्त्वं मितव्ययो भव । ततोऽहं कोपादिहागमम् । गुरवोऽप्यूचुःकिं ते नाम? । खटिकया भुवि लिखित्वा दर्शितं आम इति ।
"महाजनाचारपरम्परेदशी ___ स्वनामादि (म साक्षात्) त्रुवते न साधवः ।
अतोऽभिधातुं न तदुत्सहे पुन
__ जैनः किलाचारमुचं विगायति ॥१॥"-उपेन्द्रवत्रा तस्याश्रितत्वेन गुरवो हृष्टाः । चिन्तितं च तैः--
पूर्व श्रीरामसैन्येऽसौ, दृष्टः पाण्मासिकः शिशुः ।
पीलुवृक्षमहाजाल्यां, वस्त्रान्दोलकमास्थितः॥१॥-अनु० अचलच्छायया च पुण्यपुरुषो निर्णीतः । ततस्तजननी वन्यफलानि विचिन्वानाऽस्माभिर्भणिता-वत्से ! का त्वम् ? किं वा तव कुलम् ? । साऽवादीनि कुलम्-अहं राजपुत्री कन्यकुब्जेशयशोधर्मपत्नी सुयशानामाऽहं । अस्मिन् सुते गर्भस्थिते सति दृढकार्मणवशीकृतधवया बकुलप्रमाणया कृत्ययेव क्रूरया सपत्न्या मिथ्या परपुरुषदोषमारोप्य गृहानिष्काशिता । अपमानेन श्वशुरकुलपितृकुले हित्वा भ्रमन्तीह समागता वनवृत्त्या जीवामि बालं च पालयामि । इदं श्रुत्वाऽस्माभिः प्रोक्ता-वत्से!. अस्मञ्चैत्यं समागच्छ, वत्सं
१ इदं पयं प्रभावकचरित्रे (पृ. १२९) भपि दृश्यते । २ अस्योल्लेखः प्रभावकचरित्रे (पृ. १३.) अपि, परन्तु तत्र शिशुस्थाने किलेति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org