SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ ख-परिशिष्टम् एँ ॐ नमो जिनाय । ॥ श्रीवप्पमट्टिसरिचरितम् ॥ गुर्जरदेशे पाटलिपुरे जितशत्रु राजा राज्यं करोति स्म । तत्र श्रीसिद्धसेननामा सूरी. श्वरोऽस्ति स्म । स मोढेरकपुरमहास्थाने श्रीमहावीरनमस्कार करणाय आगतः, श्रीमहावीरं नत्वा तीर्थोपवासं कृत्वा चात्मारामरतो योगनिद्रया स्थितः सन् स्वप्नं ददर्श, यथाकेशरिकिशोरको देवगृहोपरि क्रीडति । स्वप्नं लब्ध्वाऽजागरीत् । मङ्गल्यस्तवनाम्यपाठीत् । प्रभाते च चैत्यं गतः । तत्र पवार्षिको बाल एको बालांशुमालिसमद्युतिराजगाम । सूरिणा पृष्टः-भो अर्भक! कस्त्वम् ? कुत आगतः । तेनोक्तम्-पञ्चालदेशे द्र(दु?) म्बाउधीग्रामे पप्पाख्यः क्षत्रियः, तस्य भटि म सधर्मचारिणी, तयोः सूरपालनामा पुत्रोऽहम् । मत्तातस्य बहवो भुजबलगर्विताः सपरिच्छदाः शत्रवः सन्ति, तान् सर्वान् हन्तुं सन्ना चलन्नासम्, पित्रा निषिद्धः-वत्स! बालस्त्वं नास्मै कर्मणे प्रगल्भसे, अलमुद्योगेन । ततोऽहं क्रुद्धः-किमनेन निरभिमानेन पित्राऽपि, यः स्वयमरीन् न निहन्ति मामपि नन्तं निवारयति ? अपमानेन मातापितरावनापृच्छयात्रागतः। सूरिणा चिन्तितम्अहो दिव्यं रत्नम् ! न मानवमात्रोऽयम् । "तेजसां हि न वयः समीक्ष्यते” इति विमृश्य बाल आलापितः-वत्स! अस्माकं पार्श्व तिष्ठ निजगृहाधिकसुखेन । बालेनोक्तम्-महान् प्रसादः, (स) स्वस्थानमानीतः, सङ्घो हृष्टः । तद्रूपविलोकनेन दृष्टयस्तुष्टिं न मन्यन्ते, पाठयित्वा विलोकितः, एकाहेन श्लोकसहस्रमध्यगीष्ट । गुरवस्तुष्टुवुः । रत्नानि पुण्यप्र. करप्राप्यानि । धन्या वयम् । तेन बालकेनाप्यल्पदिनैर्लक्षणसाहित्यादीनि भूयांसि शास्त्राणि पर्यशीलिपत, ततो गुरवो द्रम्बाउधीग्रामे जग्मुः, वालस्य पितरौ आगतो वन्दितुं, गुरुभिरालापितौ-पुत्रा भवन्ति भूयांसोऽपि, किं तैः संसारावकरकृमिभिः? । अयं तु युवयोः पुत्रो व्रतमीहते । दीयतां नः, गृह्यतां धर्मम्(मः), नष्टं मृतं सहन्ति(न्ते) हि पितरो निजतनयम् , श्लाघ्योऽयं भवतितीर्घः । पितृभ्यां उक्तम्-भगवन् ! अयमेक एव मत्कुलतन्तुः कथं दातुं शक्यते ? । तावता सविधस्थेन सूरपालेन उदितम्-अहं चारित्रं गृहाम्येव । यतः “सा बुद्धिः प्रलयं प्रयातु कुलिशं तस्मिन् श्रुते पात्यतां वल्गन्तः प्रविशन्तु ते हुतभुजि ज्यालाकराले गुणाः । यैः सर्वैः शरदिन्दुकुन्दविशदैः प्राप्तैरपि प्राप्यते भूयोऽप्यत्र पुरन्ध्रिरन्ध्रनरकक्रोडाधिवासव्यथा ॥ १॥"-शार्दूल. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004891
Book TitleChaturvinshatika
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2006
Total Pages348
LanguageGujarati
ClassificationBook_Gujarati
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy