________________
॥ श्रीवप्पभट्टिसूरिविरचिता ॥ ॥ चतुर्विंशतिका ॥
( सटीका) assassinasan १ श्रीऋषभजिनस्तुतयः ।।
REPRESERVERTERSTAR अथ श्रीनाभेयस्य स्तुतिः
नमेन्द्रमौलिगलितोत्तमपारिजात____ मालार्चितक्रम ! भवन्तमपारिजात !। 'नाभेय' ! नौमि भुवनत्रिकपापवर्गदायिन् ! जिनास्तमदनादिकपापवर्ग! ॥ १॥
-वसन्ततिलका (८, ६)
टीका पारिजाताः-कल्पगुमास्तेषां मालास्ताभिरर्चितौ क्रमौ यस्य तस्य संबोधनं हे पा० । अपगतमरिजातं यस्य तस्यामन्त्रणे । भुवनत्रिकं पातीति "क्वचित् डः" (सिद्ध-हेमे० अ० ५, पा० १, सू० १७१ ) "डित्यन्त्यस्वरादेः" ( सिद्ध० अ० २, पा० १, सू० ११४) इत्यनेनान्त्यस्य लोपः तस्यामन्त्रणम् । हे मोक्षदायिन् ! अस्तः कन्दादिकः पापवर्गो येन तस्यामन्त्रणे ॥१॥
अन्वयः नम्र-इन्द्र-मौलि-गलित-उत्तम-पारिजात-माला-अर्चित-क्रम! अप-अरि-जास! भुवनत्रिक-प! अपवर्ग-दायिन् ! जिन ! अस्त-मदन-आदिक-पाप-वर्ग ! 'नामेय'! भपस्तं मौमि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org