________________
૨૧૦
समास-विग्रहः
विलम्बः प्रकाश. 'तत्पुरुषः', कृता प्रकाशच्छायाविलम्बेन यतिः येन तत् कृत० 'बहुव्रीहिः', तत् कृत०॥
७५--मोहश्च अनश्च मोहानौ ' इतरेतरद्वन्द्वः', मोहानयोः आयः मोहा० 'तत्पुरुषः', अस्तः मोहानायो यस्याः सा अस्त० 'बहुव्रीहिः । अम एव तामरसं अम० 'कर्मधारयः', तद् अम । वाग् एव चन्द्रः वाक्च० 'कर्मधारयः', वाक्चन्द्रस्य रुक् वाक्च० ' तत्पुरुषः। तमसो भरः तमो० 'तत्पुरुषः', तं तमो० । आयासश्च मानश्च ममता च मरश्च आयास० ' इतरेतरद्वन्द्वः', आयासमानममतामराणां संस्तवः आयास० 'तत्पुरुषः, न विद्यते आयासमानममतामरसंस्तवो येषा ते अनायास० 'बहुव्रीहिः', तेषां अनायास०॥
७६--जैनं च तत् शासनं च जैन० कर्मधारयः, श्रिया युक्तं जैनशासनं श्रीजैन० 'मध्यमपदलोपी' समासः, श्रीजनशासनस्य हिता श्रीजैन. 'तत्पुरुषः । अहितानां आली अहिताली 'तत्पुरुषः', निखिला चासौ अहिताली च निखिला० 'कर्मधारयः', निखिलाहिताल्याः संभिद् निखिला० ' तत्पुरुषः । अमराणां सभा अमर० 'तत्पुरुषः', नता अमरसभा यस्याः सा नता० 'बहुव्रीहिः । सुरैः भासमाना सुर० 'तत्पुरुषः।। धरणस्य प्रिया धरण. 'तत्पुरुषः । संभिन्नं च तत् तामरसं च संभिन्न० 'कर्मधारयः', संभिन्नतामरसवद् भासुरा संमिन्न० कर्मधारयः', संमिन्नतामरसभासुरा मा यस्याः सा संभिन्न 'बहुव्रीहिः ॥
७७---महान्तश्च ते मुनयश्च महा० 'कर्मधारयः, विस्मिता महामुनयो येन तद् विस्मित. 'बहुव्रीहिए, तद् विस्मित । निर्गता माया यस्मात् स निमोयः 'बहुव्रीहिः", तत्सं० निमोय।। विस्मितं महो यस्य स विस्मित 'बहुव्रीहिः ॥
७८--जिनान् पान्तीति जिनपाः ' उपपद 'समासः । कान्तायाः रसः कान्ता. 'तत्पुरुषः, तं कान्ता० । गत्या पराजिताः गति० 'तत्पुरुषः', गतिपराजिता राजहंसा यैस्ते गति. 'बहुव्रीहिः।। कीर्तिश्च कं च कीर्तिके 'इतरेतरद्वन्द्वः', शोभने कीर्तिके यस्याः सा सुकी० 'बहुव्रीहिः, तां सुकी० । तारा चासौ सङ्गतिश्च तार० 'कर्मधारयः, तारसङ्गत्या पराः तार० 'तत्पुरुषः । राजा च हंसश्च राज० 'इतरेतरद्वन्द्वः', जितौ राजहंसौ यैस्ते जित० 'बहुव्रीहिः ॥
७९---दुःखेन दान्ताः दुर्दा०, दुर्दान्ताश्च ते वादिनश्च दुर्दा० कर्मधारयः', दुर्दान्तवादिनां कुमतं दुर्दा० 'तत्पुरुषः', दुर्दान्तवादिकुमतमेव त्रिपुरः दुर्दा• 'कर्मधारयः, दुर्दान्त. वादिकुमतत्रिपुरस्य अभिघातः दुर्दा ' तत्पुरुषः, तस्मिन् दुर्दा० । कामस्य अरिः कामारिः 'तत्पुरुषः, ते कामा० । सर्वज्ञ एव शीतरुचिः सर्वज्ञ० 'कर्मधारयः', तेन सर्वज्ञ० । कामश्च अरयश्च मानश्च ममता च कामा० 'इतरेतरद्वन्दः, निरस्ताः कामारिमानममताः येन तत् निरस्त 'बहुव्रीहिः', तत् निरस्त । पृथुलः क्षणो येन तद् पृथुल० 'बहुव्रीहिः', तेन पृथुल० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org