________________
॥ सूरिप्रेमाष्टकम् ॥ कर्ता: पन्यास श्रीकल्याणबोधिविजयगणी (वसन्ततिलका)
श्रीदानसूरिवरशिष्यमतल्लिका स गीतार्थसार्थसुपतिप्रणताङ्घ्रिपद्मः सिद्धान्तवारिवरवारनिधिः महर्षिः
श्रीप्रेमसूरिरवताद्भवरागनागात् चारित्रचञ्दनसुगन्धिशरीरशाली
स्वाध्यायसंयमतपोऽप्रतिमैकमूर्तिः
मौनप्रकर्षपरिदिष्टमहाविदेहः
श्रीप्रेमसूरिरवताद्भवरागनागात् कर्माख्यशास्त्रनिपुणो ह्यनुहीरसूरिः विश्वाद्भुतप्रवरसंयतगच्छकर्ता जैनेन्द्रशासनमहत्कुशलौघकल्पः श्रीप्रेमसूरिरवताद्भवरागनागात् दर्शस्य रात्रिसदृशे कलिकालमध्ये प्रेमामृतेन विलसत्परिपूर्णचन्द्रः लोकोत्तरास्वनितदर्शितसार्वकक्षः श्रीप्रेमसूरिरवताद्भवरागनागात् वैराग्यनीरजलधि- र्निकटस्थसिद्धिः संसारतारणतरी शमसौख्यशाली
स्वर्गापवर्गफलदकलकल्पवृक्षः श्रीप्रेमसूरिरवताद्भवरागनागात् ऐदयुगीनसमये हि समस्तवर्षे मन्ये न साधकवरः परिपूर्णशीलः मन्ये करालकलिकालजवीतरागः श्रीप्रेमसूरिरवताद्भवरागनागात् अत्यन्तनिःस्पृहमनः कृतदभ्ररागः संतोष केसरिविदीर्णविलोभनागः कल्याणबोधिमचलं प्रतिजन्म दद्यात् श्रीप्रेमसूरिरवताद्भवरागनागात् क्वाऽहं भवद्गुणसमुद्रतलं यियासुः Sहं भवत्स्तुतिकृते ऽस्मि समर्थबुद्धिः नाऽहं भवत्पुनितपादरजोऽप्यरेऽस्मि कल्याणबोधिफलदातृतरो ! नतोऽस्मि
Jain Education International
I
119 £1
1
IR II
॥३॥
-
11811
--
11411
1
॥६॥
11911
1
॥८ ॥
॥ सूरिभुवनभान्वष्टकम् ॥
कर्ता : पन्यास श्रीकल्याणबोधिविजयगणी (वसन्ततिलका)
सज्ज्ञानदीप्तिजननैकसहस्रभानो ! सद्दर्शनोच्छ्रयविधौ परमाद्रिसानो ! दुष्कर्मभस्मकरणैकमनःकृशानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् यो वर्द्धमानतपसामतिवर्द्धमानभावेन भावरिपुभिः प्रतियुध्यमानः । क्रुच्छलोभरहितो गलिताभिमानो भावाद् भजे भुवनभानुगुरो ! भवन्तम् तेजः परं परमतेज इत समस्ति दुर्दृष्टिभित्तदमिचंदनि चामिदृष्टिः । भूताऽपि शैलमनसां नयनेऽश्रुवृष्टि र्भावाद् भजे भुवनभानुगुरो ! भवन्तम् तुभ्यं नमो भविकपङ्कजबोधभानो ! तुभ्यं नमो दुरितपङ्कविशोषभानो ! तुभ्यं नमो निबिडमोह मोहभानो ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् सिगुरो ! गुरुताप्रकर्ष ! पापेष्वपि प्रकृतदृष्टिपियूषवर्ष ! वृत्त्यैकपूतपरिशुद्धवचोविमर्श ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् कल्लोलकृद्वरकृपा भवतो विभाति देदीप्यते लसदनर्घ्यगुणाकरोऽन्तः । गम्भीरताऽतिजलधे ! नयनिम्नगाधे ! भावाद् भजे भुवनभानुगुरो ! भवन्तम् सीमानमत्र न गता न हि सा कलाऽस्ति प्रक्रान्तदिक्सुगुणसौरभ भाग्गुरोऽसि दृष्टाश्च दोषरिपवो दशमीदशायां भावाद् भजे भुवनभानुगुरो ! भवन्तम् त्वद्पादपद्मभ्रमरेण देव ! श्री हेमचन्द्रोक्तिकृता सदैव । भानो ! नुतोऽसीत्यतिभक्तिभावात् त्वत्संस्मृतेः साश्रुससम्भ्रमेण
For Private & Personal Use Only
॥८ ॥
119 11
॥२॥
॥३॥
॥४ ॥
11411
॥६॥
॥७॥
(इन्द्रवज्जा)
www.jainelibrary.org