________________
सरस्वती-भक्तामरम्
[ सरस्वतीપધાર્થ “હે સરસ્વતી ! આ લોકને વિષે ભક્તિપૂર્વક તારા નામરૂપી મત્રને જાપ જપનારા એવા તેમજ ભરતક્ષેત્રમાં જન્મેલા એવા મનુષ્યને પાપ-સમૂહ કે જેણે મનુષ્યલોકને તેમજ રવર્ગલોકને નિરોધ કર્યો છે (અર્થાત્ જેણે ઉર્ધ્વ ગતિને નિરોધ કર્યો છે, તે પાપ-સમૂહ ભૂમંડળનું તેમજ આકાશનું આચ્છાદન કરીને રહેલા એવા તેમજ રાત્રિ સંબંધી એવા સૂર્યનાં કિરसाथी हायेसा संपनी नेम नाश पामे छे."-७
श्रीहर्ष-माघ-वर-भारवि-कालिदास
वाल्मीकि-पाणिनि-ममट्टमहाकवीनाम् । साम्यं त्वदीयचरणाजसमाश्रितोऽयं मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ॥ ८ ॥
टीका
हे वरदे ! हे सरस्वति ! अयं-मल्लक्षणो जनः-सेवकः त्वदीयचरणाजसमाश्रितः सन् तवेमौ त्वदीयौ चरणाब्जौ-चरणकमलौ सं-सम्यक् प्रकारेणाश्रितः-संप्राप्तः श्रीहर्षमाधवरभारविकालिदासवाल्मीकिपाणिनिमममहाकवीनां साम्यं-तुल्यताम् उपैति-प्राप्नोति । श्रीहर्षश्च मावश्च व. र:-श्रेष्ठो योऽसौ भारविर्वरभारविश्व कालिदासथ वाल्मीकिश्च पाणिनिश्चममश्च श्रीहर्षमाघवरभारविकालिदासवाल्मीकिपाणिनिममहाः ते च ते महाकवयश्च श्रीहर्ष०, तेषां श्रीहर्षादिमहाकवीनां, श्रीहर्षमावभारविकालिदासा महाकाव्यकर्तारः, वाल्मीकी रामायणवक्ता, पाणिनिःसूत्रकृत, ममहो महाभाष्यवृत्तिकारः, एते महाकवयस्तेषां तुल्यत्वं प्राप्नोतीत्यर्थः । युक्तोऽयमर्थः । ननु इति निश्चये । उदबिन्दुः-जलकणः, उदकस्य विन्दुः उदबिन्दुः, उदकस्योदन्नादेशः। अन्जसमाश्रितः-कमलपत्राभि( धि )रूढः पानीयबिन्दुः मुक्ताफलकान्तिमुपैति, तद्वदयमपि तेषां साम्यमुपैति ॥ ८॥
अन्वयः (हे सरस्वति ! ) त्वदीय-चरण-अब्ज-समाश्रितः अयं ( मल्लक्षणः जनः) श्रीहर्ष-माघ-वर-भारवि. कालिदास-वाल्मीकि-पाणिनि-ममट्ट-महत्-कवीनां साम्यं उपैति, (यथा) अज-समाश्रितः उदन्-बिन्दुः मुकाफल-द्युति ननु उपैति ।
१' तथा तेषां ' इति.क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org