________________
Jain Education International
श्रीभावप्रभसूरिविरचितम्
स्नेहान्वितः परिवृढो विमुखोऽयनं हि दृष्ट्वाऽभयं भवति नोभवदाश्रितानाम् ॥ ३४ ॥
माकन्दवृन्दवनराजिपदे निरेनो
ऽसह्योऽप्यहो ! सकलकेवलसम्पदाप्तेः । सालत्रयं भविभृतं भुवि मोहभूपो
नाक्रामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ इत्युत्सुका गतिविनिर्जितराजहंसी
'राजीमती' दृढमतिः सुसती यतीशम् । इन्द्रः स्तुतं पययाविति नोऽसुखानि त्वन्नामकीर्तनजलं शमयत्यशेषम् ॥ ३६ ॥
मत्तालिपाटलमलीमसकामभोगी
योगीश ! दुर्धरकषायफटोत्कटाक्षः । जय्यो जवेन जठराप्तजनोऽपि तेन
त्वन्नामनागदमनी हृदि यस्य पुंसः ॥ ३७ ॥
कालोपमं विशददर्शनकृत्यशून्यं पक्षद्वयात् सदसतो धृततर्कजालम् ।
मिथ्यात्विशासनमिदं मिहिरांशुविद्ध
त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८ ॥
रत्नत्रयं निरुपमं नरराजहंसाः
संवित्तिदर्शनचरित्रमयप्रकाशम् ।
क्षित्याप्त संसृतिपरिश्रमदुःखदाहं त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९ ॥
वित्तेन साधकतमेन सुन भावात् कैवल्यनार्युरसिजैकरसाभिलाषाः ।
For Private & Personal Use Only
१७
www.jainelibrary.org