SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ नेमिभक्तामरम् रागीभवद् विकचकोकनदश्रियाऽरं बिम्बं रवेरिव पयो धरपार्श्ववर्ति ॥ २८ ॥ स्वामिन् ! 'समुद्रविजया'वनिपालसूनो ! स्तादीश्वरोऽत्र यदहार्यगतिं तवेमाम् । कान्ति निवारयति विष्णुपदोदितां क स्तुङ्गोदयाद्रिशिरसीव सहस्ररश्मेः ॥ २९ ॥ सारेच्छुदुर्लभमतोऽफलमेव मन्ये मुख्यं महेश ! महतोऽप्यपरोपकृत् ते । सिद्धागमार्थवरमुच्चदशं स्वरूप मुच्चैस्तटं सुरगिरेरिव शातकौम्भम् ॥ ३० ॥ उच्चोपलासनमशीतकरातपत्रं वातोच्चलद्विततनिर्झरचामरं च । देवार्चित ! त्रिकमिहास्तु तवैवमेव प्रख्यापयत् त्रिजगतः परमेश्वरत्वम् ॥ ३१ ॥ उक्तेष्वमीषु वचनेषु मयाऽमृतानि जानीध्वमादृतरुषाऽप्यनुरागयुक्त्या । नेत्रादिषु प्रथितसाम्यगुणेन मे हि ___ पद्मानि तत्र विबुधाः परिकल्पयन्ति ॥ ३२ ॥ मत्स्वाम्यहं च मुखनेत्रजितावमुष्या नीतोष्णतामिति मदेन मृगेण मन्ये । दाहाय मे प्रकृतिरीश ! विधोर्यथाऽस्ति तादृक् कुतो ग्रहगणस्य विकाशिनोऽपि ? ॥ ३३ ॥ अत्रैव पश्य परमां पर ! कैरविण्यां ज्योत्स्नाप्रिये च वितनोति रतिं शशाङ्कः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004888
Book TitleKavya Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy