________________
श्रीधर्मवर्धन गणिकृतम्
रम्याणि मौक्तिकफलानि च साधुहंसास्त्वत्पादपङ्कजवनाश्रयिणो लभन्ते ॥ ३९॥
भगवद्वचनश्रद्धानात् कामितप्राप्तिर्भवतीत्याहसंसारकाननपरिभ्रमणश्रमेण
क्लान्ताः कदापि दधते वचनं कृतं ते । ते नाम कामित पदे जिन ! देहभाज
स्वासं विहाय भवतः स्मरणाद् व्रजन्ति ॥ ४० ॥ भगवद्रूपं दृष्ट्वा सुरूपा अपि स्वरूपमदं मुञ्चन्तीत्याह - सर्वेन्द्रियैः पटुतरं चतुरस्रशोभं
त्वां सत्प्रशस्यमिह दृश्यतरं प्रदृश्य । तेऽपि त्यजन्ति निजरूपमदं विभो ! ये
Jain Education International
मर्त्या भवन्ति मकरध्वजतुल्यरूपाः ॥ ४१ ॥
निर्बन्धनं जिनं ध्यायन्तो निर्बन्धना भवन्तीत्याह -
छित्त्वा दृढानि जिन ! कर्मनिबन्धनानि
सिद्धस्त्वमापिथ च सिद्धपदं प्रसिद्धम् । एवं तवानुकरणं दधते तकेऽपि
सद्यः स्वयं विगतबन्धभया भवन्ति ॥ ४२ ॥
भगवत्स्तोत्राध्ययनात् सर्वोपद्रवनाशो भवतीत्याह-
न व्याधिराधितुलोऽपि न मारिरारं
नो विड्वरोऽशुभतरो न दरो ज्वरोऽपि । व्यालोऽनलोऽपि न हि तस्य करोति कष्टं
यस्तावकं स्तवमिमं मतिमानधीते ॥ ४३ ॥
भगवत्स्तवो मौक्तिकहारः कण्ठे धार्य इत्याहत्वत्स्तोत्रमौक्तिकलतां सुगुणां सुवर्णा त्वन्नामधामसहितां राहितां च दोषैः ।
For Private & Personal Use Only
www.jainelibrary.org