SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ वीरभक्तामरम् तिष्ठन्ति ते समवसत्यविरोधिनं त्वा दृष्ट्वा भयं भवति नो भवदाश्रितानाम् ॥ ३४ ॥ भगवञ्चरणशरणगतं न कोऽपि पराभवतीत्याह यस्ते प्रणश्य चमरोंऽहितले प्रविष्ट स्तं हन्तुमीश ! न शशाक भिदुश्च शक्रः । तद् युक्तमेव विबुधाः प्रवदन्ति कोऽपि नाकामति क्रमयुगाचलसंश्रितं ते ॥ ३५ ॥ भगवन्नामतोऽति(पि)भयं न भवतीत्याह-- पूर्व त्वया सदुपकारपरेण तेजो लेश्या हता जिन ! विधाय सुशीतलेश्याम् । अद्यापि युक्तमिदमीश ! तथा भयाग्निं त्वन्नामकीर्तनजलं शमय यशेषम् ॥ ३६॥ भगवन्नामतः सर्पभयमपि विलीयत इत्याह ऊर्ध्वस्य ते बिलमुखे वचनं निशम्य य'चण्डकौशिक'फणी शमतामवाप । तत् साम्प्रतं तमपि नो स्पृशतीह नाग स्त्वन्नामनागदमनी हृदि यस्य पुंसः॥ ३७॥ भगवद्विहारे ईतयो न भवन्तीत्याह तुर्यारके विचरसि स्म हि यत्र देशे तत्र त्वदागमत ईतिकुलं ननाश । अद्यापि तद्भयमहर्मणिधामरूपात् त्वत्कीर्तनात् तम इवाशु भिदामुपैति ॥ ३८ ॥ मगवस्पादसेवाफलम् - निर्विग्रहाः सुगतयः शुभमानसाशाः सच्छुक्लपक्षविभवाश्चरणेषु रक्ताः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004888
Book TitleKavya Sangraha Part 1
Original Sutra AuthorN/A
AuthorHiralal R Kapadia
PublisherJinshasan Aradhana Trust
Publication Year2004
Total Pages224
LanguageGujarati
ClassificationBook_Gujarati
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy