________________
वीरभक्तामरम्
तस्यापि पारमुपयाति न कोऽपि बुडया
___ को वा तरीतुमलमम्बुनिधिं भुजाभ्याम् ? ॥ ४ ॥ उपदेशाधिक्यमाह
धर्मस्य वृद्धिकरणाय जिन ! त्वदीया
प्रादुर्भवत्यमलसद्गुणदायिनी गौः । पेयूषपोषणपरा वरकामधेनु
भ्येति किं निजशिशोः परिपालनार्थम् ? ॥ ५ ॥ कर्मक्षये भगवतो नानो माहात्म्यमाह
छिद्येत कर्मनिचयो भविनां यदाशु
त्वन्नामधाम किल कारणमीश ! तत्र । कण्ठे पिकस्य कफजालमुपैति नाशं
तच्चारुचूतकलिकानिकरैकहेतुः ॥ ६ ॥ भगवता मिथ्यात्वं हतं, तदन्यदेवेषु स्थितमित्याह
'देवार्य'देव ! भवता कुमतं हतं तन्
मिथ्यात्ववत्सु सततं शतशः सुरेषु । संतिष्ठतेऽतिमलिनं गिरिगहरेषु
सूर्याशुभिन्नमिव शार्वरमन्धकारम् ॥ ७ ॥ भगवतो नाम्न आधिक्यमाह
त्वन्नाम 'वीर 'इति देव ! सुरे परस्मिन्
केनापि यद्यपि धृतं न तथापि शोभाम् । प्राप्नोत्यमुत्र मलिने किमृजीषपृष्ठे
मुक्ताफलद्युतिमुपैति ननूदबिन्दुः ? ॥ ८ ॥ भगवतो ज्ञानोत्पत्तिविशेषमाह
ज्ञाने जिनेन्द्र ! तव केवलनाम्नि जाते
लोकेष कोमलमनांसि भ्रशं जहर्षः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org