________________
नैमिभक्तामरम् ]
નેમિભક્તામર
૧૩૫
કાય છે અને દુનિયામાં છપ પણ ચારિત્રશાળી વ્યક્તિની જ પડે છે. આ સંબંધમાં ઘણું વિવેચન २४ श3 तेम छ, परंतु २५ । " आचारहीनं न पुनन्ति वेदाः " में वसिष्ठ-स्मृतिना ७४/ 24ધ્યાયના ત્રીજા લોકને ચરણને ઉલ્લેખ કરી વિરમવું ઉચિત સમજાય છે. આની વિશેષ માહિતી भारे नुमा विशेषावश्य: (गायां ११४३११६3).
*
बालश्चिखेलिथ सुरैः कृतनर्मकमैं
धीरो भवंश्च समितौ भुवनेषु जिष्णुः । सत्त्वात् पुनः स च गृहीति' किमत्र गण्यो व्यक्तं त्वमेव भगवन् ! पुरुषोत्तमोऽसि ॥ २५ ॥
टीका हे भगवन् ! व्यक्तं-प्रकटं अत्र-लोके त्वं एव पुरुषोत्तमो गण्यः-संख्येय इति किमसि ? अपितु पुरुषोत्तमो गण्यो नासि । त्वं बालः सन सुरैः-देवैः सह चिखेलिथ-क्रीडां करोषि स्मेत्यर्थः । कथंभूतैः सुरैः ? कृतानि नर्मकर्माणि-क्रीडाकर्माणि येषां तैः । कर्मशब्दोऽत्राकारान्तोऽप्यस्ति । च-पुनः कथंभूतस्त्वं ? धीरो-दृढो भवन् । कस्यां ? समितौ-ईर्यादिपञ्चसमितिरूपेऽथवा साम्ययोगे । यतः- "समितियुधि सङ्गमे । साम्ये सभायामीर्यादौ" इति हैमानेकार्थः । पुनः कथंभूतस्त्वं ? भुवनेषु-विश्वेषु जिष्णुः-जयनशीलः । कस्मात् ? सत्त्वात्-पराक्रमात् । अथ कृष्णोऽपि सुरैः सह क्रीडां चकार, समितौ-सङ्ग्रामे सभायां वा धीरो भवन् पुनः सत्वात् विश्वे जयनशीलः । इति तव कृष्णस्य च साम्यं प्रोक्तम्, अथ कृष्णस्य विशेषमाह-पुन. रितिभेदे । स च कृष्णः गृही-कलत्रवान इति वर्तते, त्वं तु न इति, तेन पुरुषोत्तमः गण्यो नेति युक्तम् । पुरुषाणां मध्ये उत्तमः पुरुषोत्तम इति निरुक्तिः । अथवा "स च गृहीति भवास्तु योगी" इति पाठान्तरम् । तत्र पक्षे हे भगवन् ! त्वमेव पुरुषोत्तमोऽसि, साम्यधर्मत्वात् । पुनः सच कृष्णो गृही। पुनः भवान् तु योगी-योगधारी। यतः (श्रीवाग्भटविरचिते) अलङ्कारग्रन्थे (प०४, श्लो० ८५,८६)
"केनचिद यत्र धर्मेण,द्वयोः संसिद्धसाम्ययोः । भवत्येकतराधिक्य, व्यतिरेकः स उच्यते ॥१॥-अनु० अस्त्वस्तु पौरुषगुणाजयसिंहदेव
पृथ्वीपतेमृगपतेश्च समानभावः । किन्त्वेकतः प्रतिभटाः समरं विहाय
सधो विशन्ति वनमन्यमशङ्कमानाः ॥२॥"-वसन्त० इति व्यतिरेकालङ्कार उक्तः । लोकभाषया स्त्रीरहितो योगी कथ्यते इत्यस्या ईर्ष्यावचनमपि ॥२५॥
१'ति भवांस्तु योगी' इति पाठान्तरम् । २ 'सात्म्य' इति क-पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org