________________
आमुख
'पाप्' शब्दं पकारान्तं सर्पवचनम्-अकारान्तं कल्पयित्वा सत्यं 'पापः' एव असौ-इति वदन्ति । एवं 'माल' शब्दं स्त्रीवचनं 'माला' इति कल्पयित्वा सत्यमित्याहुः। 'वैर' शब्दं च रेफान्तम्-उदरवचनम्-'वैरि'शब्देन प्रत्याम्नायं वदन्ति-सत्यम् सर्वस्य क्षुधितस्य अकार्ये प्रवर्तनाद् उदरं वैरिकार्ये प्रवर्तते इति।।
तद् यदा द्रविडादिभाषायामीदृशी स्वच्छन्दकल्पना तदा पारसी-बर्बर-यवनरौमकादिभाषासु किं विकल्प्य किं प्रतिपत्स्यन्ते इति न विद्मः ।
तस्माद म्लेच्छप्रसिद्धं यत् पदमार्यैर्विकल्प्यते । न कश्चित् तत्र विश्वासो युक्तः पद-पदार्थयोः ॥ निरुक्त-व्याक्रियाद्वारा यस्त्वर्थः परिगम्यते । पिक-नेमादिशब्दानां स एवार्थो भविष्यति ॥ इति प्राप्तम् । एवं प्राप्ते वदामोऽत्र पदं निपुणदृष्टिभिः । विज्ञायेताऽविनष्टं यत् तत् तदर्थं भविष्यति ॥ देशभाषा-ऽपभ्रंशपदानि हि विप्लुतिभूयिष्ठानि न शक्यन्ते विवेक्तुम् । यत् तु वेद-तदङ्गेषु पदं दृष्टमविप्लुतम् । म्लेच्छभाषासु तद्रूपमर्थ क्वचन चोदितम् ।। तत् तथैव प्रतीयेत प्रमाणेनाऽविरोधतः। पिक-नेमादि तद्धयेवं निपुणैरवधारितम् ॥ चोदितं ह्युपदिष्टं वा प्रयुक्तं वा क्रियागतम् । म्लेच्छैरवधृतं पश्चाद् आयद्वैभाषिकैः क्वचित् ।। तादृशं तु प्रतीयेत प्रामाण्येनेति निश्चितम् । न तद् धर्मप्रमाणेन वेदाख्येन विरुध्यते ॥
अपि च
पदार्थ-पदसंबन्धज्ञानापेक्षप्रवर्तनात् । प्रसिद्धिर्यत्र तत्रस्था वाक्यायानुगम्यते ॥ पिकादिशब्दवाच्यं वा म्लेच्छैर्यदवधारितम् । अविरोधात् प्रमाणेन तद्विधा वेदनोदितम् ।। चोदितं वा प्रमाणेन वेदेनेत्यस्य संगतिः । आर्यैः सहाऽविरुद्धत्वात् तस्य तैरप्यपेक्षणात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org