________________
चतुर्थः प्रस्तावः । दीयमाने महामूल्ये वृषभाणां स्मरसाधुना। (बिम्बार्थ मिथ्यादृशोऽपि पुरतः प्रत्युत्तरमिदं ददुः ॥१०३॥ फलहे धन्येयं गूर्जरधरा यत्र साधुशिरोमणिः । रानयनम् ।)
निवासमासूत्रयसे सूत्रभृद् धर्मवेश्मनः ॥१०॥ 5 त्वां विना कथमिदानीं काले म्लेच्छविनाशितम् ।
शत्रुञ्जयमहातीर्थमेतदायास्यदुद्धृतिम् ॥ १०५॥ धन्या ते जननी यस्या रत्नं रोहणभूरिव । कुक्षिः सूते स्म तनयं भवन्तं विश्वभूषणम् ॥१०६॥ धन्यस्ते देशलस्तातो यस्य तनुर्भवादृशः। कलिकूपे निपतन्तं धर्ममुद्धरति स्म यः ॥१०७॥ लोकोत्तरचरित्रस्य दर्शनेनापि ते वयम् । कृतार्थाः समभूमात्र पुण्यं यदर्शनं सताम् ॥१०८॥ वृषकार्ये वृषा एते गृह्यन्तां बलशालिनः । सदृशां सदृशैोगो लोकख्यातो भवत्वयम् ॥१०९॥ मूल्येन न घनेनापि प्राप्यं तेऽत्र प्रयोजनम् । न क्रीणात्यरघट्ट कोऽपि पोलिकयैकग्रा (या?) ॥११०॥ सर्वेषामेकमेवोक्तं स विचार्य विचारवित् । धौरेयान् वृषभाँस्तेभ्यो सधो स(ज) ग्राह विंशतिम् ॥११॥
वृषभान्नाददे येषां ते विलक्षा इवाभवन् । 20 सौरभेयाधिपतयो भनाशा इव याचकाः ॥११२।।
वीक्ष्या(क्षा)पन्ना[ न ]निरीक्ष्यासावनादत्तवृषानरान् । प्रत्यूचे समरः साधुः सुधामधुरया गिरा ॥११३॥ अहो महानुभावा ! वो विषादो नोचितो यतः ।
वृषो वृषानयनेन ध्रुवं युष्माभिरर्जितः ॥११४॥ 25 पुण्यहेतुर्भावनैव युष्मास्वविकलाऽस्ति सा ।
अनुमोदकोऽपि यत्स्याद्दानदातेव तद्विभाक् ॥११५।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org