SearchBrowseAboutContactDonate
Page Preview
Page 427
Loading...
Download File
Download File
Page Text
________________ नाभिनन्दनोद्धारप्रबंधः । आरासनसमासन्नग्रामेभ्यो ऽभ्येत्य भाविनः । फलहीमपि तां पुष्पकर्पूराद्यैरपू पुजत् ॥९०॥ गीतगानैर्महाध्वानैर्वादित्रैर्वादितैरपि । हर्षकोलाहलैश्चकुः शब्दाद्वैतमुपासकाः ॥९१॥ 5 दवाऽथ निखिलां शिक्षां पाताह्नाय स्वमन्त्रिणे । राणकः श्रीमहीपालदेवः स्वपुरमाययौ ॥९२॥ अथो रथोद्भटे मन्त्री समारोप्य शिलामिमाम् । परतः पृष्ठतो रज्जुविलग्नैर्बहुभिर्नरैः ॥९३॥ आकृष्यमाणां तरसा सबलैर्धवलैरपि । 10 पदे पदे खन्यमाने सकुद्दालनरैः पाथे ॥९४॥ अत्रुटत्तैलधाराभिर्निपतन्तीभिरक्षयोः । महतोपक्रमेणाथ पर्वतादवतारयत् ॥९५॥ [ त्रिभिर्विशेषकम् ] कुमार सेना ग्रामस्योपवने समभूमिके । रथोद्भटस्तिष्ठति स्म स न याति यतोऽग्रतः ॥९६॥ 15 तत्र त्रिसङ्गमपुरप्रमुखस्थानवासिनः । सङ्घाः समेत्य सस्पर्द्ध महोत्सवमकारयन् ॥९७॥ मन्त्री कुमारसेनायामागतो (ता) फलहीति सा । साधवे शुद्धिमाख्यातुं पत्तने प्रैषयन्नरम् ॥९८॥ समरोऽपि तद्विज्ञप्तेरवगत्य समागताम् । १३६ 20 फलद्दीं स शिखण्डीव हृष्टो मेघध्वनेरभूत् ॥९९॥ अथ सर्वत्र धौरेय वृषभानयनाय सः । प्रेषयत्स्वनरांस्तेऽपि प्रतिग्रामं व्यलोकयन् ॥१००॥ स्वेषु प्रामेषु यो यस्य वृषभः सबलोऽभवत् । समस्तोऽपि [च] तं स्वं स्वं समादाय समागमत् ॥ १०१ ॥ 25 कौटुम्बिका राजपुत्रा द्विजातय उपालकाः । सरप ढोकयन्ति स्म स्वान् स्थान वृषभानमी ॥ १०२ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy