SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ चतुर्थः प्रस्तावः । प्रासादोऽपि यती मुख्यो म्लेच्छैरस्ति विनाशितः। परतो देवकुलिका अपि तस्य निपातिताः ॥७॥ तद्विभज्य यथायोग्यं सर्वेषां पुण्यहेतवे।। कर्मस्थाय करणाय शिक्षा संघः प्रयच्छतु ॥७॥ 5 तत्रोचे पुण्यवान् कोऽपि प्रासादस्य समुद्धृतिम् । मुख्यस्य कारयिष्येऽहं यच्छतानुमति मम ॥७९॥ संघः प्रोचे बिम्बकर्ता योऽस्ति सोऽस्यास्तु कारकः । यस्य भोज्यं हि तस्य स्यात् ताम्बूलमपि युक्तिमत् ॥८॥ तस्मिंस्तथैव निर्णीते संघेनापि मुदा समम् । 10 विभज्य किञ्चित्केषांचिद्धर्मकृत्यमदीयत ॥८१॥ प्रमाणीकृत्य सर्वेऽपि संघ सङ्घगेदितं मुदा । तत्तद्विधापनोयुक्ताः स्वं स्वं गृहमुपाययुः ॥२॥ संघस्य साधुरादेशं प्राप्यादेशमिव प्रभोः। नियोगादपरानन्दमन्दिरं देशलोऽभवत् ॥८३॥ 15 भूयोऽपि प्रेषयत् साधुर्धनं शिक्षां च मन्त्रिणः। आरभ्यैवविध कार्य को गणयत्युपक्षयम् ॥४॥ पाताकोऽपि सूत्रधारान् स्वर्णकंकणवाससाम् । दानेन तोषयामास निर्गतेऽस्मिन् शिलातले ॥५॥ श्रुत्वा श्रीमान् महीपालदेवो बिम्बविनिर्गमम् । 20 वर्धापयितुं स्वपुरात् खनि हर्षादुपागतः ॥८६॥ मन्यमानो महीपालः प्रत्यक्षमिव तं जिनम् । अर्चयामास कालेय-धनसार-सुमादिभिः ॥७॥ दीयमानमहादानं नृत्यत्पादकुलं मुदा। स ताम्बूलमिलल्लोकं राणकोऽकारयन्महम् ॥८८॥ 25 अथो गिरेस्तामुत्तार्य सूत्रधारैः स सादरम् । आरासने महीपालस्तत्प्रवेशमहं व्यधात् ॥८९॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy