________________
नाभिनन्दनोद्धारप्रबंधः ।
निशाकरकर स्वच्छं स्फटिकोपलसंनिभम् । स्मरपुण्यमिवाध्यक्षमपश्यंस्ते शिलातलम् ॥ ६४॥ विधाय सलिलस्विन्नं निर्णीय गतदूषणम् । शिलातलं सूत्रधाराश्चक्रुः फलहिकां ततः ॥६५॥ 5 मन्त्रीश्वरः समरस्य विज्ञप्तिसहितं नरम् । प्राहिणोत् फलहीकार्यसिद्धिशुद्धिविधायकम् ॥६६॥ पत्तमं समुपेत्याश्व (त्याशु) देसलं सुतसंयुतम् । नरो वर्धापयामास फलहीसिद्धिसूचनात् ॥६७॥ देसलोsपि सुतेनासौ पट्टसूत्राम्बरद्वयम् । 10 आदापयद्धेममयीं रसनां दशनान्विताम् ॥ ६८ ॥ आचार्यवर्यानाकार्य साधून् साध्वीरुपासकान् । उपासिकाश्च संमील्य स आरेभे महोत्सवम् ॥ ६९ ॥ प्रधानवसनैश्वित्रैः सुवर्णाभरणैरसौ । ताम्बूलकुसुमैः संघं यथायोग्यमुपाविशत् ॥ ७० ॥ 15 बन्दिनो गायनान् पादकुलान्यपि समन्ततः । अमानदानैर्निखिलानर्थिनः समतोषयत् ॥७१॥ वर्द्धापनं विधायैवं पुनः संघपुरः करौ । संयोज्य देसलः साधुरिति विज्ञापनां व्यधात् ॥७२॥ संघादेशप्रसादेन मूलनायक मूर्त्तये ।
20 निष्पन्ना फलही तावदियं दूषणवर्जिता ॥७३॥ तदेतया कारयामि बिम्बं वा मन्त्रिसत्कया । संघः प्रसादमाधाय समादिशतु मां पुनः ॥७४॥ संघः पूर्वोदितमेव तस्मै प्रत्युत्तरं ददौ । सतां पाषाणरेखेव नान्यथा वचनं भवेत् ॥७५॥ 25 तदाहुः संघपुरुषाः साधो समर ! साम्प्रतम् । सर्वा देवकुलादीनां परठा (?) क्रियतामपि ॥७६॥
१३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org