________________
चतुर्थः प्रस्तावः । आरेभिरे सूत्रधाराः खनितुं खनिमुद्वराः। स्वल्पैरहोभिरेवैते फलही(ही)निरसारयन् ॥५१॥ आकृत्य जलैर्यावत् फलहीमालुलोकिरे । तावत्स्फुटितरेखां ते ददृशुर्मध्यसंस्थिताम् ॥५२॥ 5 समरोऽपि सदोषां तां ज्ञात्वाऽऽयातनरैस्ततः। नवीनायाः कारणाय शिक्षा स प्रैषयत् पुनः ॥५३॥ तेऽपि पूर्वमिवोद्धर्तुं खनेरारभतेऽथ ताम् । आशु यावत् प्रादुरासीत् स्फुटिता सा द्विधाऽभवत् ॥५४॥
अथ राणकमन्त्रीशस्तेऽपि साधुनियोगिनः। 10 विषिणा(षण्णा)अष्टमतपः कृत्वाऽऽसन् कुशसंस्तरे ॥५५॥
तृतीयस्यां निशीथिन्यां साक्षाच्छासनदेवता। यक्षः कपर्दी चागत्य मन्त्रिणं तौ जजल्पतुः ॥५६॥ भो ! भो ! मन्त्रीश्वर ! भवानुपासकशिरोमणिः ।
जैनधर्मस्य विज्ञोऽपि कथमज्ञ इवाभवत् ॥५७॥ 15 आवां साधर्मिको मन्त्रिन्नसंस्मृत्य भवानपि ।
आरम्भं विदधे तत्किं कर्तुमेवं तवोचितम् ॥५८॥ परं समरसिंहस्य भाग्यमेकमभङ्गुरम् । प्रमाणमत्र सर्वत्र वर्तते कार्यसिद्धये ॥५९॥
खने: प्रदेशादस्मात् तबिम्बमाकृष्यतामिति । 20 उक्त्वा प्रदर्य तत्स्थानं तावप्यन्तर्हितौ क्षणात् ॥६०॥
प्रातः कपर्दिनमथो मन्त्री शासनदेवताम् । पूजयित्वा समं साधुनरैरकृत पारणम् ॥६१॥ तदेव देवकथितं खनेः स्थानमथान्यदा।
सूत्रधाराः खनयितुमारभन्त मुदा सह ॥६२॥ 25 देवानुभावादेवात्र तावत्सू त्रभृता करैः।
लग्नमात्रैरपि रयान्निःससार शिलातलम् ॥६३॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org