SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ १३२ नाभिनन्दनोद्धारप्रबंधः । साधोरुपायनमिदं पाताकसचिवाखिलम् । प्रतीपमर्पय कथं पुण्यार्थे गृह्यते धनम् ॥३८॥ धनेन परिवारेण जीवितेनापि योज्यते । धर्मः प्राभृतमात्रेण स कथं हार्यते मुधा ॥३९॥ 5 तथा यो गृह्णतां खानेर्बिम्बानां दलपाटकम् । विभागो भूपतेरस्ति मुक्तः सोऽपि मयाऽधुना ॥४०॥ यत्किञ्चिदपि कार्येऽस्मिन् क्रियमाणे विलोक्यते । तत्र तत्र भलिष्यामि पुण्यांशोऽस्तु ममापि हि ॥४१॥ इत्युदीर्य महीपालः समं समरपुरुषैः। 10 पाताकमन्त्रिसहित आरासनखनि ययौ ॥४२॥ तत्र सूत्रधारान् सर्वान् दलपाटककारिणः । समाहूय ससन्मानं बिम्बमूल्यमकल्पयत् ॥४३॥ यथेप्सितं याचितेऽर्थे सूत्रधारैः ससादरः । अनुमेने महीपालदेवस्तदधिकं पुनः ॥४४॥ 15 शुभे वारे शुभे लग्ने शुभे भे च महीपतिः । आरम्भ कारयामास खानिपूजापुरस्सरम् ॥४५॥ सुवर्णाभरणैर्वस्त्रैस्ताम्बूलभॊजनैरपि । तदा स्मरनराः सर्वसूत्रधारानमानयन् ॥४६॥ तथा दानं ददुः साधुसमरादेशकारिणः। 20 यथेप्सितं याचते(के)भ्यो जायमाने महोत्सवे ॥४७॥ आसूत्रयन्नवारितसत्राका(गा)रममी नराः। योगिकार्पटिकादीनां चिन्तामणिमिवापरम् ॥४८॥ आरम्भ कारयित्वाऽथ तत्र संस्थाप्य मन्त्रिणम् । स्वयं श्रीमान्महीपालस्त्रिसंगमपुरेऽगमत् ॥४९॥ 25 प्रत्यहं प्रेषितनृणां यातायातैर्महीपतिः। . समरोऽपि वेत्ति शुद्धिं शिक्षा प्रेषयति स्म च ॥५०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy