________________
चतुर्थः प्रस्तावः ।
यो न हन्ति श्रसं सत्त्वं स्वजीवमिव सर्वदा । राज्येऽपि यस्य कश्चिन्नो बोधको लभते स्थितिम् ||२५|| यस्याज्ञया लघुं छागं सैरिभं वा न कश्चन । हन्तुं लेभे तथा थूकां शय्यां च धर्तुमातपे ||२६|| 5 द्यूतस्थानेऽपि सारीभिः क्रीडन्तः कितवा अपि । मारयामीति न गिरं गृणन्ति स्म कदाचन ||२७|| वाजिनोऽपि पिबन्त्यस्य जलं गलनगालितम् ।
विद्यन्ते साधवस्त्वेके पञ्चषा (चेषु ?)नां विघातकाः ||२८|| दिन एव सदा योऽयमेकमन्तीति भोजनम् ।
10 माहेश्वरोऽपि सन् जैनधर्मदृढमतिस्थितिः ||२९||
स तत्र श्रीमहीपालदेवः पालयति प्रजाम् ।
नवः कुमारपालोऽयमिति ख्यातिमवाप यः ||३०|| [ सप्तभिः गम्भीर प्रकृतिस्तस्य समुद्रो मन्त्रिनायकः । कुलकम् ] पाताहयोऽस्ति चित्रं यो न दोषाकरवल्लभः ॥३१॥ 15 समरस्य नरा लात्वा विज्ञप्त्या सह ढौकनम् । श्रीमहीपालदेवस्य दर्शनायागमन्नमी ||३२|| राणकस्य महीपालदेवस्य प्रणता पुरः । उपायनमुपानीय विज्ञप्तिं ते समर्पयन् ॥३३॥ मन्त्रिमुख्योऽपि सहसा गृहीत्वा विज्ञप्तिं करे । 20 श्रीराणकस्य समादेशादुच्चेः स्वरमवाचयत् ||३४|| तदर्थमवगम्याथ श्रीमहीपालराणकः । संभूतपुरुहूतश्रीरिव हृष्टमना जगौ ||३५||
धन्यः समरसिंहोऽयमस्य जन्म फलेग्रहि । यस्यास्ति कलिकालेऽपि मतिः कृतयुगानुगा ||३६|| 25 धन्योऽहमपि यस्यास्ति खनिरारासणाश्मनाम् । अन्यथा कथमत्रार्थे भवेयं स्मरणोचितः ||३७||
Jain Education International
१३१
For Private & Personal Use Only
www.jainelibrary.org