________________
१३०
नाभिनन्दनोद्धारप्रबंधः ।
साधो समर ! निस्सीमभीमकालोष्मतापिते । सुधातडाग वद् विश्वे भवानेव विराजते ॥१२॥ कलिदानवसैन्येन विध्वस्तानमरानपि । गतप्राणानात्मशक्त्या संजीवयतुमिच्छति ॥१३॥ 5 साधो ! पुण्यवतां धुर्यो देशलः परिगीयते । कलिकालेऽपि यस्य त्वं तीर्थोद्धारचिकीः सुतः ॥१४॥ रत्नभूताऽपरमियं मम्माणफलही पुरा । मन्त्रिणाऽस्ति समानीता प्रभूतद्रविणव्ययात् ॥ १५ ॥ तदस्याः समयो नैव कारयित्वा निवेशने । 10 कलिः कृतान्त इव यद्गीयते रतदूषकः ॥१६॥ तदियं तिष्ठतु तथा यथाऽस्ति स्थापिता पुरा । आरासनफलहिकां तत्त्वं कारय नूतनाम् ॥१७॥ संघादेशं निशम्यासौ शिरस्यारोपयत्करौ । तत्स्वभाभ्यगृद्दद्वारे तोरणं रचयन्निव । १८॥ 15 ऊचे च संघस्यादेशः प्रमाणं सर्वथा मम । जिनानामपि मान्यो यत्संघः किमुत मादृशाम् ॥ १९ ॥ एवं संघसमादेशं प्राप्य प्राप स्वमन्दिरम् । देशलस्याग्रतः सर्वे तमादेशं शशंस सः ||२०|| समरो देशलादेशादारासनखनेर्जिनम् । 20 आनाययित (तु) प्राहै ( प्रै) षीन्नरानादेशकारिणः ||२१|| अथ ते स्मरविशप्तिमारासनखनिप्रभोः । योग्यामादाय मुदाऽचलन् प्राभृतसंभृताः ||२२|| तेऽथ त्रिसंगमपुरं देशाधीशसमाश्रयम् । अवापुरचिरेणैव समुत्साहरथस्थिताः ||२३|| 25 जन्मतोऽपि न यो मांसं विजयां मदिरामपि । नाभक्षयत् स्वयं देशेऽप्यपरेभ्यो न्यायवरत् ||२४||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org