________________
अथ चतुर्थः प्रस्तावः ।
अथान्यदा मुदा युक्तः समस्तान् सूरिपुंगवान् । उपासकान् संघमुख्यानपि साधुरमीलयत् ॥१॥ सूरिप्रमुख संघस्य श्रीमतोऽरिष्टनेमिनः । मन्दिरे समरो भक्त्या यथा युक्त्या न्यवेशयत् ॥२॥ 5 प्रणम्य पुरतः स्थित्वा प्राञ्जलिर्जल्पति स्म सः । अवधारयतां संघो विशतिं कुरु (र्व) तो मम ॥३॥ श्रीशत्रुञ्जयतीर्थेशोच्छेदो म्लेच्छविनिर्मितः । कलिकालवशाज्जज्ञे धर्मवैरी सदा स यत् ॥४॥ ततस्तस्मिन् समुच्छिन्ने तीर्थेऽस्मिन् तीर्थनायके । 10 उपासकानां सर्वेऽपि धर्मा अस्तमिता भुवि ॥५॥ तीर्थाभावे भावयुक्ता कथं कथमुपासकाः । आराधयिष्यन्ति द्रव्यस्तवं तदधिकारिणः ॥६॥ चतुर्विधेऽपि धर्मेऽस्मिन् मुख्यतां भावनाऽश्नुते । प्रभावना ततोऽपि स्यात् श्रेष्ठा श्रेयस्तरोः पयः ॥७॥ 15 जायते सा च यात्रायां यात्रा स्यात् तीर्थपे सति । अतस्तीर्थाधिपं संघानुशया कारयाम्यहम् ||८|| मन्त्रिणा वस्तुपालेन याऽस्ति मम्माणखानितः । आनीता फलही भूमिगृहे सा विद्यतेऽक्षता ॥९॥ लाच संघसमुत्सङ्गे पुरा न्यस्ताऽस्ति मन्त्रिणा । 20 संघादेशेन तामेव घटयाम्यथवा परम् ॥१०॥ आचार्यवर्याः संघस्य पतयः श्रावका अपि । साधूदितं मिथः सर्वे पर्यालोच्यावदन्निति ॥११॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org