________________
१२८ वाभिनन्दनोखारप्रबंधः ।
मम्माणशैलफलही पूर्वमानायिताऽस्ति यत् ॥३१॥ तेनैव सा भूमिगृहे विन्यस्ताऽद्यापि विद्यते । अक्षताऽतस्तामेव किं प्रभो! कारये भ(न)वाम् ॥३१२॥
सूरयोऽपि समाकार्य देशलं पुण्यपेशलम् । 5 आदिशन्निति तस्याग्रे सपुत्रस्यापि सादरम् ॥३३॥
येयं पुरा समानीता मम्माणफलही वरा । मन्त्रिणा विद्यते सा तु संघोत्सङ्ग निवेशिता ॥३१४॥ चतुर्विधस्य संघस्य गृहीत्वाऽनुमतिं ततः।
एतया कार्यते बिम्ब तीर्थेऽस्मिन्मूलनायकम् ॥३१५॥ 10 सर्वाणि धर्मकार्याणि संघसांनिध्यतः सदा। सफलानि भवन्त्यत्र विशेषात्तु तदीक्ष्यते ॥३१६॥ इति निशम्य गिरां स्वगुरूदितां
ससमरोऽपि सपद्यथ देशलः।
अगमदायतियोगविमर्शनो15
स्सुकमनाः सुमना निजमन्दिरम् ॥३१७॥
इति श्रीशत्रुञ्जयमाहात्म्यवर्णनो नाम तृतीयः प्रस्तावः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org