________________
10
१३८
नाभिनन्दनोद्धारप्रबंधः । इत्युदीर्य स संमान्याशन-ताम्बूलदानतः । समरोऽपि.द्विजादीस्तान विससर्ज वृषाधिपान् ॥१६॥ स्मरः कुमारसेनायां शकटं वृषभानपि । मार्गोपचारप्रगुणान् प्रेषयामास पूरुषान् ॥१७॥ मन्त्री तच्छकटं दृष्ट्वा लोहबद्धं दृढं पृथु । प्रोन्नतं मुमुदे चारु साक्षाद्रथमिवागतम् ॥१९८॥ तस्मिन्न[न]सि ते यावत्फलहीमध्यरोपयन् । तावता तत्क्षणाजीर्णमिव चूर्णीबभूव तत् ॥११९॥ ततो विषण्णो मन्त्रीशो भूयः समरपार्श्वतः । विशेषनिविडं प्रौढमानाययदनो परम् ॥१२०॥ तस्मिन् तस्यां समारूढमात्रायामपि सत्वरम् । अभज्यतानो देवस्य सहः को वा भरोद्धृतेः ॥१२॥ पुनमन्त्री स्मरं ज्ञाततदुदन्तं नरैय॑धात् ।
अनिर्विनः(र्वेदः)श्रियो मूलमिति प्रैषादनो परम्।।१२२॥ 15 तस्मिन्नपि तथाजाते जातचिन्तोऽथ साधवे ।
सविज्ञप्तं नरं शीघ्रं सचिवेशो व्यसञ्जयत् ॥ १२३ ॥ समरोऽपि परिज्ञाय तमुदन्तमुपागतम् । चिन्तालताजालकान्तःपतितो व्याकुलोऽभवत् ॥१२४॥
सर्थदेशेषु दुष्प्रापं प्राप्तं बहुविलोकितैः । 20 यद्यदोऽपि भग्नमनस्तदाऽन्यत् कुत्र लप्स्यते ॥१२५||
रथोद्भटे न पश्य (यात्य?)स्मिन् याति स्कन्धेषुनो नृणाम्। मनोरथस्तविता तातस्य सफलः कथम् ॥१२६।। इति चिन्तावीचिमालिमध्ये साधानिमज्जतः ।
अक्ष्णोरपासरन्निद्रा निमज्जनभयादिव ॥१२७॥ 25 स्मरं चिन्ताचान्तचितं वीक्ष्य प्रत्यक्षरूपिणी ।
समेत्य शासनसुरी प्रोचे वत्स ! विषीद मा । १२८ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org