________________
१२६ नाभिनन्दनोद्धारप्रबंधः । तदादिश 'यथा तीर्थस्योद्धारं कारयाम्यहम् । भजनादू घटना[] वाऽपि त्वं नवीनो विधिर्भव ॥२८॥ श्रीमानलपखानोऽपि प्रीतिमान् समरोपरि । उवाच वाचं तुष्टोऽस्मि विधेहि स्वमनीषितम् ॥२८७॥ 5 तुष्टोऽसि यदि तत्स्वामिन् ! स्फुरन्मानं समर्पय । निष्प्रत्यूह यथा मे स्यात् कार्यमित्याह स स्मरः ॥२८८॥ स गूर्जरधराधीशो बहिरामाभिधं ततः। आदिशन्मलिकं साधोः स्फुरन्मानस्य साधने ॥२८९॥ विशेषतस्तस्य साधुः प्राणेभ्योऽभ्यधिकः प्रियः । 10 अतः प्राप्य स आदेशं तत्र कायें मुदं दधौ : २९०॥
देवतायतने गत्वा बहिरामो नृपाशया। साधो[:] शीघ्र स्फुरन्मानं स्फुरन्मानमलेखयत् ॥२९१॥ विलेखितं स्फुरन्मानं स्वमादाय सादरः ।
बहिरामः साधुयुक्तः खानपार्श्वमुपाययौ ॥२९२॥ 15 खानोऽपि स्वकरे कृत्वा स्फुरन्मानं सुलेखितम् ।
वाचयित्वा स्वयमेव बहिरामं पुनर्जगौ ॥२९३॥ तसरीफां शिरस्त्राणसहितां स्वर्णनिर्मिताम् । मणिमौक्तिकसंयुक्तां शीघ्र कोशात् समानय ॥२९४॥
सोऽपि कोशात् समादायालपखानकरे ददौ । 20 खानोऽपि समरायादात् ताम्बूलपुरस्सरम् ॥२९५।।
स्वयं साधुकरे खानः स्फुरन्मानं वितीर्य तम् । उवाच निर्भयः स्वीयं साधो! साधय वाञ्छितम् ॥२९॥ पतित्वा पादयोः साधुस्तत्सरीफां मुदा सह ।
शीघ्रं परिदधाति स्म शिरस्त्राणं च सादरः ॥२९७॥ 25 न्यस्य शीर्षे स्फुरन्मानं स्मरसाधुः प्रणम्य च ।
इति विज्ञपयामास स वासवगुरुधिया ॥२९८।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org