SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः। १२५ ततः श्रीसमरसिंहोऽलपखानमुपायनैः। मणि-मुक्ताफल-स्वर्ण-वसना-भरणादिभिः ॥२७३॥ अन्यैश्च विविधैर्वस्तुनिकरैरात्मना सह । गृहीतैर्गुर्जरोर्वीशमाशिश्रिये शुभे दिने ॥३७४॥ [युग्मम् ] 5 तं निरीक्ष्यालपखानो भूपतिः स्मरमागतम् । मुमुदे नितरां यद्वा तदाप्तौ को न माद्यति ॥२७५।। हस्तमुल्लास्य सोल्लासं प्रोचे प्रौञ्चे: स्वरं नृपः। आगच्छागच्छ भो भ्रातः! शीघ्रं शीघ्रमिहाग्रतः ॥२७६॥ निरीक्ष्य तं स्वामिहर्षमादरं च तथाविधम् । 10 साधुस्तं शकुनं मेने कार्यसिद्धर्विधायकम् ॥२७७॥ प्राभृतानि पुरस्तस्य सद्यः साधुरढौकयत् । विलोक्यालपखानोऽपि ढौकनं मुमुदेतराम् ॥२७८॥ प्रसन्नोऽलपखानोऽपि प्रोचे भ्रात ! कथं वद । उपायनमिदानी मे विहितं भवता महत् ॥२७९॥ 15 भवान् मे सदाऽभीष्टो मदादिष्टविधायकः। अवारितागमस्तत्र तत्सखे! वद कारणम् ॥२८॥ प्रणम्य समरः प्रोचे प्रसन्नश्चेदू भवान् विभो! याचितं दास्यते तदा याचे किश्चिन्मनीषितम् ॥२८१॥ सोऽध्याह समर! त्वत्तो नापरः स्वसुतोऽपि मे । 20 संमतोऽस्ति ततः स्वैरं निर्विचार विमार्गय ॥२८२॥ अथ विज्ञपयामास समरः साधुपुंगवः । स्वामिस्तव बलैर्भनं तीर्थ नो विमलाचले ॥२८३।। तीर्थेऽत्र विद्यमाने यत् समस्ता हिन्दुका जनाः । यात्रां कृत्वा धर्महेतोय॑यन्ति स्म धनं निजम् ॥२८४॥ 25 तत्र गत्वा च दीना[न] नृन् दु:स्थितानपि भोजनैः । हिन्दुकास्ते प्रयन्ति स्म सर्वदा सर्वकामितैः (१) ॥२८५॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy