SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः । तीर्थस्योद्धाराः । तेषु पञ्च समुद्धारा विख्याताः क्षितिमण्डले । समजायन्त नान्येषां विज्ञातुं नाम शक्यते ॥३९॥ अथ विज्ञपयामास प्राञ्जलिर्देशलो गुरून् । प्रभो ! प्रसादस्तीर्थस्य वर्णनेन विधीयताम् ॥४०॥ 5 वास ( वत्स ) रेभ्यः कियद्धयोऽर्वाग् महातीर्थमभूदिदम् । कश्चास्य महिमा केऽत्र समुद्धारकरा पुरा ॥४१॥ मुरुराद्दावसर्पिण्युत्सर्पिणीषु गतास्वपि । बीष्विदं महातीर्थ साधो ! न स्वल्पकालिकम् ॥४२॥ तदोद्धारकारका ये तदानीमभिधा ( धया) स्वया । 10 न ज्ञायन्ते साम्प्रतं ता बहुकालव्यतिक्रमात् ॥४३॥ अस्यामेवावसर्पिण्यां यस्तीर्थमहिमा पुरा । अतिमुक्तादिभिः प्रोक्तस्तं वक्ष्ये किञ्चनाधुना ॥ ४४ ॥ भरतेऽत्र पुरा नाभिजन्माजनि जिनेश्वरः । तीर्थकराणां प्रथमः केवलज्ञानभास्करः ॥४५॥ 15 तस्यासंश्चतुरशिति संख्याका गणधारिणः । पुण्डरीकाभिधस्तेषु मुख्योऽभूद्भरतात्मभूः ॥४६॥ सोऽन्यदा केवलज्ञाने स्वस्यामु (नु) ल्लसति प्रभुम् । प्रणम्य प्रोचियानेष विषादविषदुर्मनाः ॥४७॥ पयः पूर्णेऽपि तीरस्थस्तृषाकोऽपि सरोवरे । 20 यथाऽर्यते तथा नाथ ! दुर्बलो लवणाकरे ॥४८॥ निवसन्नप्यलवणं भोज्यं भुङ्क्ते यथाऽचलम् | न कर्करमवाप्नोति सेवमानोऽपि रोहणम् ॥ ४९ ॥ तथाऽहं तव पौत्रोऽपि शिष्योऽपि भक्तिमानपि । समीपस्थोऽपि सततं ज्ञानं किं न लभे प्रभो ! [त्रिभिर्विशेषकम् ] 25 भगवानभ्यधादेवं महासत्व ! विषीद मा । यतो मोहादयोऽद्यापि तव सन्त्यान्तरारयः ॥ ५१ ॥ Jain Education International For Private & Personal Use Only १०७ www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy