________________
भाभिनन्दनोशारप्रबंधः । यदिदं भवपाथोधिपारसंप्रापणक्षमम् । शत्रुञ्जयमहातीर्थ त्वया पाप! विनाशितम् ॥२६॥ विवेकिनमपि प्राप्तसन्तोषमपि मानवम् ।
कलिविडम्बयत्येव पिशाच इव दुष्टधीः ॥२७॥ 5 पुण्यवारिभृतं भव्यघटं चञ्चुविदूषकः । कलिर्विटालयत्येव काकोलवदनुज्ज्वलः ॥२८॥ एवं संशोच्य गत्वा च सिद्धसूरिप्रभोः पुरः। साधुः शशंस तीर्थस्य सर्व म्लेच्छविचेष्टितम् ॥२९॥
श्रीसिद्धसूरयः श्रुत्वा श्रुतश्रो(स्रोतस्विनीश्वराः । 10 ऊचिरे कुरु मा खेदं साधो ! शृणु भवस्थितिम् ॥३०॥
अस्मिन्नसारे संसारे सदा क्षणविनश्वरे । न कोऽपि भावः स्थिरतामाप्नुवन्ननुभूयते ॥३१॥ यतः कल्लोलतरलं जीवितं यौवनं धनम् ।
सर्वार्थसाधकं गात्रमपि विद्युल्लताचलम् ॥३२॥ 15 वातोद्भूतार्कतूलाभाः संभोगाः प्रियसङ्गमाः ।
पुरा-कर-सरो-ग्राममुख्यं वस्त्वखिलं चलम् ॥३३॥ विशेषतोऽयमधुना दु:षमासमयोऽस्ति यः। तत्रानन्तगुणा हानिः प्रोक्ता तीर्थकरैरिह ॥३४॥
एवं विभाव्य संसारस्वरूप साधुसत्तमः । 20 न विषादो विधातव्यश्चेतसीदं तु चिन्तय ॥३५॥
धन्यः स एव धनवानुद्धारं यो जिनेशितुः। कारयिष्यति तीर्थस्य न भङ्गो जायते यतः ॥३६॥ तीर्थमेष सदा भद्र ! श्रीशत्रुञ्जयपर्वतः।
स यावद्विद्यते भूमौ तावदेतदनश्वरम् ॥३७॥ 25 यावन्तो जलधौ साधो! विद्यन्ते जलबिन्दवः ।
तावन्तोऽत्र समुद्धारा: समभूवन् पुराऽपि हि ॥३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org