SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ तृतीयः प्रस्तावः। तस्य श्रीसमरसिंहः साधुदेशलनन्दनः। विद्धाति सदा सेवां सर्वकार्यकरी हि सा ॥१३॥ भूपोऽपि तद्गुणप्रीतः प्रीति बन्धाविवाकरोत् । तस्मिन् साधौ यतो नृणां गुणा गौरवकारणम् ॥१४॥ 5 मित्रोष्माणमपि प्राण्यासह्याः केचन धूलिवत् । राजप्रसादतोऽप्येष शीतलश्चन्द्रकान्तवत् ॥१५॥ भूपप्रसादं सम्प्राप्य स देशस्वामिनामपि । विदधाति स्म कार्याणि वाद्धर्याप्तवारिमेघवत् ॥१६॥ जनानन्दकृता तेन सुवृत्तेन सुतेजसा । 10 देसलः सूनुना रेजे चन्द्रेणेव पयोनिधिः ॥१७॥ तस्यात्र धनदस्येव समग्रैश्वर्यशालिनः । कालः कियान् व्यतीयाय सुखेन सरलात्मनः ॥१८॥ कदापि दुःषमाकालानुभावाद् भुवि वर्तिनाम् । भावानां चञ्चलत्वाच्च श्रेयसां विनधर्मतः ॥१९॥ 15 श्रीशत्रुञ्जयतीर्थेशश्रीनाभितनुजन्मनः। दैवादजनि विध्वंसो म्लेच्छसैन्यविनिर्मितः॥२०॥ [युग्मम्] तदाकर्ण्य कर्णशूलसदृशं सुशां मनः। तथा परवशं जो न सस्मार यथाऽऽत्मनः ॥२१॥ तदुःखदुःखितधियः शिश्रियुः केऽप्यनाशकम् । 20 श्रवदश्रुप्लुतहशो रुरुदुः केपि चानिशम् ॥२२॥ स शिशुः कोऽपि न युवा न वृद्धः कोऽपि नाभवत् । श्रावकः श्राविका वाऽपि यः पयोऽपि तदाऽपिबत् ॥२३॥ देसलोऽपि तदाकर्ण्य वज्राहत इवापतत् । शीतोपचारसंप्राप्तचैतन्यो विललाप च ॥२४॥ 25 धिक् त्वां कलियुगं पापं धर्मविघ्नविनायकम् । तीर्थविध्वंसकं सत्य-शौच-सजनदूषकम् ॥२५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy