SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ अथ तृतीयः प्रस्तावः। तदा तत्र सुरत्राणोऽलावदीनो नदीनवत् । अलावदीनो नृपोभवत् । उल्लद्वाजिकल्लोलोर्वराव्यापी नृपोऽभवत् ॥१॥ यः श्रीदेवगिरी गत्वा बद्ध्वा च तदधीश्वरम् । न्यवेशयत् तं तत्रैव जयस्तम्भमिवात्मनः ॥२॥ 5 सपादलक्षाधिपति वीरं हम्मीरभूपतिम् । हत्वाऽभिमानिनं सर्व स तत्सर्वमुपाददे ॥३॥ श्रीचित्रकूटदुर्गेशं बद्ध्वा लात्वा च तद्धनम् । कण्ठबद्ध कपिभिवाभ्रामयत्तं पुरे पुरे ॥४॥ गूर्जरानाधिपः कर्णस्तूणे यस्य प्रतापतः 10 नंष्ट्वा गतो विदेशेषु भ्रान्स्वाऽथो रंकवन्मृतः ॥५॥ ईशो मालवकस्यापि दुर्गस्थो बहुवासरान् । बन्दीव निन्ये तत्रैव मृतः पौरुषवर्जितः ॥६॥ कर्णाट-पाण्डुविषय-तिलङ्गादिमहीपतीन् । यः समस्तान् वशीचक्रे शऋविक्रमभासितः १७॥ 15 समियानक-जाबालिपुरमुख्यानि योऽगृहीत् । स्थानानि विषमाणीह तेषां संख्यां करोति कः ॥८॥ खर्पराधिपसैन्यानि भ्रमन्ति विषये निजे । तथा चकार न यथा तत्सैन्यं पुनरागमत् ॥९॥ प्रसादपात्रं तत्रास्ते सुरत्राणमहीपतेः। अलपखानाख्यस्तत्रास्ते । 20 सेवकोऽलपखानाख्यः पत्तने नरनायकः ॥१०॥ विहितप्रोषितपतिरिपुनारीजनोऽस्य न। निद्राति निद्रयाऽश्रान्तश्र(स्र)वदश्रुविलोचनः ॥११॥ यस्यास्य राजपन्योऽपि बन्दीभावमुपागताः । गौरवं निगदन्तीव क्वणरकङ्कणनिःस्वनैः ॥१२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004852
Book TitleNabhinandan Jinoddhar Prabandh
Original Sutra AuthorKakkasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1928
Total Pages490
LanguageGujarati
ClassificationBook_Gujarati, History, & Literature
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy