________________
१०८
नाभिनन्दनोद्धारप्रबंधः ।
यदा शत्रुञ्जये तीर्थे महासत्व ! गमिष्यसि । स्वमान्तररिपून् जित्वा केवलं लप्स्यते तदा ॥५२॥ नत्वा प्रभुं पुण्डरीकः स्वार्थसिद्धिविधित्सया । ततः प्रतस्थेऽप्येकाकी को हि वैरिजये स्थिरः ||५३|| 5 पुण्डरीकं गणधरं यान्तं शत्रुञ्जयाय तम् ।
अन्वयुर्यतयः केsपि जिनेशपरिवारतः ॥५४॥ गच्छतः पथि तस्याथ ग्रामतो ग्रामतोऽमिलन् । गत्वा गत्वा पश्च पञ्च सप्त सप्त मुनीश्वराः ॥ ५५ ॥ एवं यावत्पुण्डरीकः पुण्डरीकगिरिं ययौ ।
10 तावत्तस्यामिलन् पञ्चकोटिसंख्यास्तपोधनाः ॥५६॥ इयता परिवारेण संयुतो गणभृद् गणी । आरुरोह गिरौ तत्र शत्रुवित्रासनोत्सुकः ॥५७॥ तैः समं पुण्डरीकोऽपि जग्राहानशनं शमी । मासेन केवलं लब्ध्वा सद्यो मोक्षमवाप सः ॥ ५८ ॥ 15 चैत्रमाले पूर्णिमास्यां (यां) पुण्डरीकोऽत्र निर्वृतः । तेन तस्य गिरेर्जज्ञे पुण्डरीक इतीङ्गना ॥५९॥ जिनः श्रीनाभिजन्मापि पुण्डरीकगणेशितुः । सर्व निर्वाणवृत्तान्तमाचख्यौ भरताग्रतः ॥ ६० ॥ विज (व्यजि) पज्जिनं सोऽपि प्रोल्लसत्पुलकांकुरः । 20 धन्योऽहं नन्दनो यस्य सिद्धोऽभूजितविद्विषन् ॥ ६१ ॥ तदत्र तीर्थे भगवन् ! विधाप्य जिनमन्दिरम् । अहमप्यर्जये पुण्यं तीर्थं स्यात् प्रकटं तथा ॥६२॥ जिनोऽप्याह युक्तमेतद्विधातुं जिनमन्दिरम् ।
अन्यत्रापि कृते पुण्यं न सामान्यं किमत्र तु ॥ ६३॥ 25 अथासौ भरतश्चक्री धर्मचक्रनिदेशतः । भरतस्य प्रथमोद्धारः । रूप्य मणि-स्वर्णमयं तत्र चैत्यमकारयत् ॥ ६४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org