________________
द्वितीयः प्रस्तावः ।
कर्पूरपूरसुभगं ताम्बूलं यस्य यच्छतः। कपुरधाराप्रवाहविरुदं बन्दिनो ददुः ॥९२६॥ तिलगाधिपतिर्यस्य कीर्त्या श्रुतिमुपेतया ।
प्रेरितः स्वपुरि स्थानं प्रददौ देववेश्मनः ॥९२७॥ 5 कर्णाट-पाण्डुविषये यद्यशः प्रसरत् सदा । तदधीशमुख्यलोकमुत्कं तदर्शनेऽकरोत् ॥९२८॥ अन्यदा देशलः साधुः श्रीमद्देवगिरौ पुरे। नूतनं जैनभवनं कर्तुमैच्छदतुच्छधीः ॥९२९॥
स साधुः सिद्धसूरिभ्यो गुरुभ्यः स्वमनोरथम् । 10 आचख्यौ यन्ममेच्छाऽस्ति जैनमन्दिरकारणे ॥९३०॥
प्रभुप्रसादात् तदियं पूर्यतां मे झट(टि)त्यपि । को मूलनायकजिनः क्रियतामायतौ हितः ॥९३१॥ प्रभुः प्रोचे तवोहाऽसावभवद् भाग्ययोगतः।
जिनौकसां कारकाणां यतः स्यादुच्छ्रिता गतिः ॥९३२॥ 15 दुष्टारिष्टहरः पार्श्वजिनः श्रीमूलनायकः । विधाप्यतामयं साधो! सर्वकामितदायकः ॥९३३॥ अथ देवगिरिस्थस्य सहजस्य जिनौकसः। विधापनार्थमादेश प्रेषयामास देशलः ॥९३४॥
सोऽप्यादेशं पितुः सद्यो यथा क्षीरं सशर्करम् । 20 आददे प्रमदापूर्णो बुभुक्षित इवाधिकम् ॥९३५॥
श्रीरामदेवभूदेवं सन्तोष्योपायनैरयम् । जिनौकोभूमिमादत्त धर्म को हि विलम्बते ॥९३६॥ स्वल्पैरहोभिरनिशं दीयमानैर्धनैर्धनैः ।
जो वैज्ञानिकोत्साहात् सम्पूर्ण देवमन्दिरम् ॥९३७॥ 25 शीतदीधितिसंकाशमारासनशिलामयम् ।
अथासौ कारयामास देसलो मूलनायकम् ॥९३८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org